SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ चतुर्विधः श्रुतसमाधिः वृत्तिः - विनयसमाधिमभिधित्सुराह - चतुर्विधः खलु विनयसमाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः, ‘अणुसासिज्जंतो' इत्यादि, अनुशास्यमानः तत्र तत्र चोद्यमानः शुश्रूषति तदनुशासनमर्थितया श्रोतुमिच्छति १ इच्छाप्रवृत्तितः तत् सम्यक् सम्प्रतिपद्यते सम्यग्-अविपरीतमनुशासनतत्त्वं यथाविषयमवबुध्यते २, स चैवं विशिष्टप्रतिपत्तेरेव वेदमाराधयति, वेद्यतेऽनेनेति वेदः - श्रुतज्ञानं तद् यथोक्तानुष्ठानपरतया सफलीकरोति ३, अत एव विशुद्धप्रवृत्तेः न च भवत्यात्मसम्प्रगृहीतः आत्मैव सम्यक् प्रकर्षेण गृहीतो येनाहं विनीतः सुसाधुरित्येवमादिना स तथाऽनात्मोत्कर्षप्रधानत्वाद्विनयादेः, न चैवम्भूतो भवतीत्यभिप्रायः, चतुर्थं पदं भवतीत्येतदेव सूत्रक्रमप्रामाण्यादुत्तरोत्तरगुणापेक्षया चतुर्थमिति, भवति च अत्र श्लोकः अत्रेति विनयसमाधौ श्लोकः छन्दोविशेषः ॥ स चायम् - प्रार्थयते हितानुशासनम् इच्छतीहलोकपरलोकोपकारिणमाचार्यादिभ्य उपदेशं, शुश्रूषतीत्यनेकार्थत्वाद्यथाविषयमवबुध्यते, तच्चावबुद्धं सत्पुनरधितिष्ठति - यथावत् करोति, न च कुर्वन्नपि मानमदेन मानगर्वेण माद्यति मदं याति विनयसमाधौ विनयसमाधिविषये आयतार्थिको मोक्षार्थीति सूत्रार्थः ॥२॥ ५१८ चव्विा खलु सुअसमाही भवइ, तंजहा - सुअं मे भविस्सइत्ति अज्झाइअव्वं भवइ १, एगग्गचित्तो भविस्सामित्ति अज्झाइअव्वयं भवइ २, अप्पाणं ठावइस्सामित्ति अज्झाइअव्वयं भवइ ३, ठिओ परं ठावइस्सामित्ति अज्झाइअव्वयं भवइ ४, चउत्थं पयं भवइ । भवइ अ इत्थ सिलोगो नाणमेगग्गचित्तो अ, ठिओ अ ठावई परं । आणि अ अहिज्जित्ता, रओ सुअसमाहिए ॥३॥ (छाया- चतुर्विधः खलु श्रुतसमाधिर्भवति, तद्यथा - श्रुतं मे भविष्यति इति अध्येतव्यं भवति १, एकाग्रचित्तो भविष्यामि इति अध्येतव्यं भवति २, आत्मानं स्थापयिष्यामि इति अध्येतव्यं भवति ३, स्थितः परं स्थापयिष्यामि इति अध्येतव्यं भवति ४, चतुर्थं पदं भवति । भवति च अत्र श्लोकः - ज्ञानमेकाग्रचित्तश्च स्थितश्च स्थापयति परं । श्रुतानि च अधीत्य, रक्तः श्रुतसमाधौ ||३|| ) वृत्तिः - उक्तो विनयसमाधिः, श्रुतसमाधिमाह - चतुर्विधः खलु श्रुतसमाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः । श्रुतं मे आचारादि द्वादशाङ्गं भविष्यतीत्यनया बुद्ध्याऽध्येतव्यं
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy