________________
५१७
चतुर्विधो विनयसमाधिः आचारसमाधिः ।
विनये श्रुते च तपसि, आचारे नित्यं पण्डिताः ।
अभिरमयन्ति आत्मानं, ये भवन्ति जितेन्द्रियाः ॥१॥) वृत्तिः - अथ चतुर्थ आरभ्यते, तत्र सामान्योक्तविनयविशेषोपदर्शनार्थमिदमाह - श्रुतं मया आयुष्मंस्तेन भगवता एवमाख्यातमित्येतद्यथा षड्जीवनिकायां तथैव द्रष्टव्यम्, इह 'खल्वि'ति इह क्षेत्रे प्रवचने वा खलुशब्दो विशेषणार्थः न केवलमत्र किं त्वन्यत्राप्यन्यतीर्थकृत्प्रवचनेष्वपि स्थविरैः गणधरैः भगवद्भिः परमैश्वर्यादियुक्तैश्चत्वारि विनयसमाधिस्थानानि विनयसमाधिभेदरूपाणि प्रज्ञप्तानि प्ररूपितानि, भगवतः सकाशे श्रुत्वा ग्रन्थत उपरचितानीत्यर्थः, कतराणि खलु तानीत्यादिना प्रश्नः, अमूनि खलु तानीत्यादिना निर्वचनं, तद्यथेत्युदाहरणोपन्यासार्थः, विनयसमाधिः १ श्रुतसमाधिः २ तपःसमाधिः ३ आचारसमाधिः ४, तत्र समाधानं समाधिः-परमार्थत आत्मनो हितं सुखं स्वास्थ्य, विनये विनयाद्वा समाधिः विनयसमाधिः, एवं शेषेष्वपि शब्दार्थो भावनीयः ॥ एतदेव श्लोकेन सगृह्णाति - विनये यथोक्तलक्षणे श्रुते अङ्गादौ तपसि बाह्यादौ आचारे च मूलगुणादौ, चशब्दस्य व्यवहित उपन्यासः, नित्यं सर्वकालं पण्डिताः सम्यक्परमार्थवेदिनः, किं कुर्वन्तीत्याह - अभिरमयन्ति अनेकार्थत्वादाभिमुख्येन विनयादिषु युञ्जते आत्मानं जीवं, किमिति ?, अस्योपादेयत्वात्, क एवं कुर्वन्तीत्याह - ये भवन्ति जितेन्द्रिया जितचक्षुरादिभावशत्रवः, त एव परमार्थतः पण्डिता इति प्रदर्शनार्थमेतदिति सूत्रार्थः ॥१॥
चउव्विहा खलु विणयसमाही भवइ, तंजहा-अणुसासिज्जंतो सुस्सूसइ १ सम्म संपडिवज्जइ २ वेयमाराहइ ३ न य भवइ अत्तसंपग्गहिए ४ चउत्थं पयं भवइ । भवइ अ इत्थ सिलोगो -
पेहेइ हिआणुसासणं, सुस्सूसई तं च पुणो अहिट्ठए।
न य माणमएण मज्जई, विणयसमाहि आययट्ठिए ॥२॥ (छाया- चतुर्विधः खलु विनयसमाधिर्भवति, तद्यथा - अनुशास्यमानः शुश्रूषति १ सम्यक् सम्प्रतिपद्यते २ वेदमाराधयति ३ न च भवति आत्मसम्प्रगृहीतः ४ चतुर्थं पदं भवति । भवति च अत्र श्लोकः -
प्रेक्षते हितानुशासनं, शुश्रूषति तच्च पुनरधितिष्ठति । न च मानमदेन माद्यति, विनयसमाधौ आयतार्थिकः ॥२॥)