SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ५१६ चतुर्विधः समाधिः (छाया- एकस्यालोच्य पार्वे यः पुनरन्यस्याप्यालोचयति । तानेवापराधान् तद्भवति बहुजनं नाम ॥१॥) अव्यक्तस्य-अगीतार्थस्य गुरोः सकाशे यदालोचनं तत्सम्बन्धादव्यक्तमुच्यते, उक्तं च ___ "जो य अगीयत्थस्सा आलोए तं तु होइ अव्वत्तं ॥" इति । (छाया- यश्चागीतार्थस्यालोचयति तत्तु भवत्यव्यक्तम् ॥) 'तस्सेवि' त्ति ये दोषा आलोचयितव्यास्तत्सेवी यो गुरुस्तस्य पुरतो यदालोचनं स तत्सेविलक्षण आलोचनादोषः, तत्र चायमभिप्राय: आलोचयितुः "जह एसो मत्तुल्लो न दाही गुरुगमेव पच्छित्तं । इय जो किलिट्ठचित्तो दिन्ना आलोयणा तेणं ॥१॥" इति । (छाया- यथैष मत्तुल्यो (दोषेणेति) न गुरु प्रायश्चित्तं दास्यति । इति यः क्लिष्टचित्तः तेनालोचना दत्ता एव (सृतमित्यर्थः) ॥१॥)' गुरुरेतान्दश शोधिदोषान् जानाति । समाधिः-स्वस्थता । स चतुर्विधः । तद्यथा - १ विनयसमाधिः, २ श्रुतसमाधिः, ३ तप:समाधिः ४ आचारसमाधिश्च । एते चत्वारोऽपि प्रत्येकं चतुर्भेदभिन्नाः । एतेषां स्वरूपमेवं प्रकीर्तितं श्रीदशवैकालिकसूत्रे तद्वृत्तौ च - 'सुअं मे आउसं ! तेणं भगवया एवमक्खायं - इह खलु थेरेहि भगवंतेहिं चत्तारि विणयसमाहिट्ठाणा पन्नत्ता, कयरे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिठाणा पन्नत्ता ?, इमे खलु ते थेरेहि भगवंतेहिं चत्तारि विणयसमाहिट्ठाणा पन्नत्ता, तंजहा - विणयसमाही सुअसमाही तवसमाही आयारसमाही। विणए सुए अतवे, आयारे निच्चं पंडिआ। अभिरामयंति अप्पाणं, जे भवंति जिइंदिआ ॥१॥ (छाया- श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातम् - इह खलु स्थविरैः भगवद्भिः चत्वारि विनयसमाधिस्थानानि प्रज्ञप्तानि, कतराणि खलु तानि स्थविरैः भगवद्भिः चत्वारि विनयसमाधिस्थानानि प्रज्ञप्तानि, इमानि खलु तानि स्थविरैः भगवद्भिः चत्वारि विनयसमाधिस्थानानि प्रज्ञप्तानि, तद्यथा - विनयसमाधिः श्रुतसमाधिः तपःसमाधिः
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy