________________
दशविधाः शोधिदोषाः
५१५ ___'जं दिटुंति यदेव दृष्टमाचार्यादिना दोषजातं तदेवालोचयति नान्यं दोषं, आचार्यरञ्जनमात्रपरत्वेनासंविग्नत्वादस्येति, उक्तं च -
"दिवा व जे परेणं दोसा वियडेइ ते च्चिय न अन्ने।
सोहिभया जाणंतु व एसो एयावदोसो उ॥१॥" इति, (छाया- ये परेण दोषा दृष्टास्तानेव प्रकटयति नान्यान् ।
शोधिभयात् जानन्तु वा एष एतावद्दोषस्तु ॥१॥) "बायरं वत्ति बादरमेवातिचारजातमालोचयति न सूक्ष्ममिति, 'सुहुमं वत्ति सूक्ष्ममेव वाऽतिचारमालोचयति, यः किल सूक्ष्ममालोचयति कथं बादरं सन्तं नालोचयत्येवंरूपभावसम्पादनायाचार्यस्येति, आह च -
"बायर वडवराहे जो आलोएइ सुहुम नालोए। अहवा सुहुमालोए वरमन्नंतो उ एवं तु ॥१॥
जो सुहुमे आलोए सो किह नालोय बायरे दोसे ?" त्ति । इति (छाया- बादरः बृहतोऽपराधान् आलोचयति सूक्ष्मान्न लोचयति ।
अथवा सूक्ष्मानालोचयति परं मन्वानः तु एवं तु ॥१॥
यः किल सूक्ष्मानालोचयति कथं स न बादरान् दोषानालोचयति ? इति ) 'छन्नं'ति प्रच्छन्नमालोचयति यथाऽऽत्मनैव शृणोति नाचार्यः, भणितं च -
"छन्नं तह आलोए जह नवरं अप्पणा सुणइ ॥" इति । (छाया- छन्नं तथालोचयति यथा नवरमात्मना शृणोति ।)
'सदाउलयं 'ति शब्देनाकुलं शब्दाकुलं-बृहच्छब्द, तथा महता शब्देनालोचयति यथाऽन्येऽप्यगीतार्थास्ते शृण्वन्तीति, अभाणि च -
"सद्दाउल वड्डेणं सद्देणालोय जह अगीयावि बोहेइ ॥" इति । (छाया- शब्दाकुलं बृहता शब्देनालोचयति यथा अगीतार्थान् अपि बोधयति ॥) 'बहुजणं'ति बहवो जना-आलोचनाचार्याः यस्मिन्नालोचने तद्बहुजनं, अयमभिप्रायः -
"एक्कस्सालोएत्ता जो आलोए पुणोवि अन्नस्स । ते चेव य अवराहे तं होइ बहुजणं नाम ॥१॥" इति ।