________________
५१४
दशविधाः शोधिदोषाः दास्यतीति बुद्ध्याऽऽलोचनाऽऽचार्यं वैयावृत्त्यकरणादिनाऽऽवर्ण्य यदालोचनमसावालोचनादोषः, 'अणुमाणइत्त' त्ति अनुमान्य-अनुमानं कृत्वा लघुतरापराधनिवेदनेन मृदुदण्डादित्वमाचार्यस्याकलय्य यदालोचनमसौ तद्दोषः, एवं 'जं दिटुंति यदाचार्यादिना दृष्टमपराधजातं तदेवालोचयति, 'बायरं व' त्ति बादरमेवातिचारजातमालोचयति न सूक्ष्मं तत्रावज्ञापरत्वात्, 'सुहुमं वत्ति सूक्ष्ममेवातिचारजातमालोचयति, यः किल सूक्ष्मं तदालोचयति स कथं बादरं तन्नालोचयतीत्येवंरूपभावसम्पादनायाऽऽचार्यस्येति, 'छन्नं'ति छन्नं प्रतिच्छन्नं प्रच्छन्नंअतिलज्जालुतयाऽव्यक्तवचनं यथा भवति, एवमालोचयति यथाऽऽत्मनैव शृणोति, 'सद्दाउलयं' ति शब्दाकुलं-बृहच्छब्दं यथा भवत्येवमालोचयति, अगीतार्थान् श्रावयन्नित्यर्थः, 'बहुजण'त्ति बहवो जना-आलोचनागुरवो यत्रालोचने तद्बहुजनं यथा भवत्येवमालोचयति, एकस्याप्यपराधस्य बहुभ्यो निवेदनमित्यर्थः, 'अव्वत्त' त्ति अव्यक्तः - अगीतार्थस्तस्मै आचार्याय यदालोचनं तदप्यव्यक्तमित्युच्यते, 'तस्सेवि' त्ति यमपराधमालोचयिष्यति तमेवासेवते यो गुरुः स तत्सेवी तस्मै यदालोचनं तदपि तत्सेवीति, यतः समानशीलाय गुरवे सुखेनैव विवक्षितापराधो निवेदयितुं शक्यत इति तत्सेविने निवेदयतीति ।'
शोधिदोषाणां स्वरूपमेवं प्रतिपादितं स्थानाङ्गसूत्रवृत्तौ -
'प्रतिषेवायां चालोचना विधेया, तत्र च ये दोषास्ते परिहार्या इति दर्शनायाह - 'दसे 'त्यादि, 'आकंप' गाहा, आकम्प्य आवद्येत्यर्थः । यदुक्तम् -
"वेयावच्चाईहिं पुव्वं आगंपइत्तु आयरिए ।
आलोएइ कहं मे थोवं वियरिज्ज पच्छित्तं ? ॥१॥" इति (छाया- वैयावृत्त्यादिभिः पूर्वं आचार्यमाकम्प्य ।
आलोचयति कथं मम स्तोकं प्रायश्चित्तं दद्यात् ? ॥१॥) 'अणुमाणइत्ता' अनुमानं कृत्वा, किमयं मृदुदण्ड उतोग्रदण्ड इति ज्ञात्वेत्यर्थः, अयमभिप्रायोऽस्य-यद्ययं मृदुदण्डस्ततो दास्याम्यालोचनामन्यथा नेति, उक्तं च -
"किं एस उग्गदंडो मिउदंडो वत्ति एवमणुमाणे ।
अन्ने पलिंति थोवं पच्छित्तं मज्झ देहिज्जा ॥१॥" इति (छाया- किमेष उग्रदण्डो मृदुदण्डो वेत्यनुमायैवं ।
अन्यान् आलोचयति मम स्तोकं प्रायश्चित्तं दद्यात् ॥१॥)