________________
दशविधाः शोधिदोषाः
५१३ प्रायस्तिन्तिणो द्विविधः-द्रव्ये भावे च । द्रव्ये तेम्बरुकं दारुकं अग्नौ आहितं तिडितिडेति, भावे आहारादिषु अलभ्यमानेषु तिडितिडेति, असदृशे वा द्रव्ये लब्धे तिडितिडेति । तिन्तिणत्वं दर्पण कुर्वतः प्रायश्चित्तं, कारणे वजिकादिषु शुद्धः । तिन्तिणेति गतम् ।
'भयं' इति अस्य व्याख्या -
भयमभियोगेन सिंहादिर्वा द्वितीयपादः । अभियोगो नाम केनचित् राजादिना अभियुक्तः पन्थानं दर्शय, तद्भयात् दर्शयति । सिंहभयाद्वा वृक्षमारूढः । अत्र शुद्धः । अननुतापित्वेन प्रायश्चित्तं भवति ।
'प्रद्वेषात् च' इति अस्य व्याख्या -
क्रोधादिस्तु प्रद्वेषः तृतीयः पादः । क्रोधादिकेन कषायेण प्रद्वेषेण प्रतिसेवमानस्य अशुद्धो भवति । मूलं तस्य प्रायश्चित्तं कषायनिष्पन्नं वा । प्रद्वेष इति गतम् ।
"विमर्श' इति अस्य व्याख्या -
विमर्शः शैक्षादीनामिति चतुर्थः पादः । विमर्शः परीक्षा । परीक्षमाणेन सचित्तगमनादिक्रिया कृता भवेत् । किं श्रद्दधाति इति शुद्धः ॥४८०॥)
गुरुरेतासां दशानां प्रतिसेवानां स्वरूपं जानाति ।
शोधिः - आलोचना । तत्र दोषा इति शोधिदोषाः । ते दशविधाः । तद्यथा - १ आकम्प्य, २ अनुमान्य, ३ यदृष्टं, ४ बादरं, ५ सूक्ष्मं, ६ छन्नं, ७ शब्दाकुलं, ८ बहुजनं, ९ अव्यक्तं १० तत्सेवि च । यदाह व्याख्याप्रज्ञप्तौ तद्वत्तौ च - 'दस आलोयणादोसा पन्नत्ता, तं जहा -
१ आकंपइत्ता २ अणुमाणइत्ता ३ जं दिटुं ४ बायरं च ५ सुहुमं वा ।
६ छन्नं ७ सद्दाउलयं ८ बहुजण ९ अव्वत्त १० तस्सेवी ॥(सूत्रं ७९९) (छाया- दश आलोचनादोषाः प्रज्ञप्ताः, तद्यथा -
१ आकम्प्य २ अनुमान्य ३ यद् दृष्टं ४ बादरं च ५ सूक्ष्मं वा ।
६ छन्नं ७ शब्दाकुलकं ८ बहुजनं ९ अव्यक्तं १० तत्सेवि ॥) वृत्तिः - 'आकंपइत्ता' गाहा, आकम्प्य-आवर्जितः सन्नाचार्यः स्तोकं प्रायश्चित्तं मे