SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ गुरोर्माहात्म्यम् ४७ सेयम् । इमे मिलिताः षट्त्रिंशद् गुणास्तस्य गणिनो भवन्ति । तृतीया ( षट्त्रिंशिका ) त्वियम् - (छाया (छाया तथा - व्रतषट्कं कायषट्कं च प्रतीतम् । अकल्पादिषट्कं त्वेवम् । अकल्पो द्विधा शिक्षकस्थापनाकल्पोऽकल्पस्थापनाकल्पश्च । तत्राद्यः (छाया - "वयच्छक्काई अट्ठारसेव, आयारमाइ अट्ठेव । पायच्छित्तं दसहा, सूरिगुणा हुन्ति छत्तीसं ॥१॥" व्रतषट्कादिः अष्टादशैव, आचारादिः अष्टावेव । प्रायश्चित्तं दशधा, सूरिगुणा भवन्ति षट्त्रिंशत् ॥१॥ "अणहीया खलु जेणं, पिंडेसणसिज्जवत्थपाएसा । तेणाणियाणि जइणो, कप्पंति न पिंडमाईणि ॥ " अनधीता खलु येन, पिण्डैषणशय्यावस्त्रपात्रैषणा । तेनाऽऽनीतानि यतेः, कल्पन्ते न पिण्डादीनि ॥ ) - "उउबद्धम्मि न अणला, वासावासासु दोवि नो सेहा । दिक्खिज्जंती पायं, ठवणाकप्पो इमो होइ ॥ " ऋतुबद्धे न अनलाः, वर्षावासेषु द्वावपि न शैक्षौ । दीक्ष्येते प्रायः, स्थापनाकल्पोऽयं भवति ॥) द्वितीयोऽनेषणीयपिण्डशय्यावस्त्रपात्रगोचरोऽकल्पः १, गृहीभाजनं कांस्यकरोटिकादि २, पर्यङ्को मञ्चकादावुपवेशनम् ३, निषद्या भिक्षार्थं गृहे प्रविष्टस्य साधोस्तत्र निषीदनम् ४ । स्नानं द्विधा - अक्षिपक्ष्मप्रक्षालनमात्रमपि देशस्नानम्, सर्वाङ्गक्षालनं तु सर्वस्नानं ५, शोभा विभूषाकरणम् ६, एषां वर्जनमेवमष्टादश । एषां चाचार्यगुणत्वमेतदपराधेषु सम्यक्प्रायश्चित्तज्ञानात् । आचारवत्त्वादयोऽष्टौ गुणाः पूर्ववत् । तथा प्रायश्चित्तं दशधा तद्यथा - 44 'आलोयण १ पडिकमणे २, मीस ३ विवेगे ४ तहा विउस्सग्गे ५ । तव ६ छेय ७ मूल ८ अणवट्टया य ९ पारंचिए १० चेव ॥" (छाया आलोचनं १ प्रतिक्रमणं २, मिश्रः ३ विवेकः ४ तथा व्युत्सर्गः ५ । तपः ६ छेदः ७ मूलं ८ अनवस्थाप्यता च ९ पाराञ्चितः १० चैव ॥) निरतिचारस्यासन्नगृहानीतभिक्षादेः प्रकटनमालोचनार्हम् १, अनाभोगादिनाऽप्रमार्जित -
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy