SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ गुरोर्माहात्म्यम् "अट्ठविहा गणिसंपय, चउग्गुणा नवरि हुंति बत्तीसं । विणओ य चउब्भेओ, छत्तीस गुणा इमे तस्स ॥" (छाया - अष्टविधा गणिसम्पद, चतुर्गुणा नवरं भवन्ति द्वात्रिंशत् । विनयश्च चतुर्भेदः, षट्त्रिंशद् गुणा इमे तस्य ॥) गणो गच्छोऽस्यास्तीति गणी आचार्यस्तस्य सम्पत्-समृद्धिः, सा च अष्टविधा - "आयार सुय सरीरे वयणे वायण' मई पयोगमई । एएसु संपया खलु अट्ठमिया संगहपरिन्ना ॥" (छाया - आचारः श्रुतं शरीरं वचनं वाचना मतिः प्रयोगमतिः । एतेषु सम्पत् खलु अष्टमी सङ्ग्रहपरिज्ञा ॥) आचारश्रुतशरीरवचनवाचनामतिप्रयोगमतिसङ्ग्रहपरिज्ञाभेदादष्टधा, नवरं चतुर्गुणाश्चतुर्भिगुणिता भवन्ति द्वात्रिंशत् सूरिगुणाः । तत्राचारोऽनुष्ठानं स एव सम्पत्, सा चतुर्धा, तद्यथा-संयमध्रुवयोगयुक्तता-चरणे नित्यं समाध्युपयुक्ततेत्यर्थः१, असम्प्रग्रह आत्मनो जात्याधुत्सेकरूपाग्रहवर्जनम् अनियतवृत्तिरनियतविहारः२, वृद्धशीलता-वपुर्मनसो निर्विकारता । __ एवं श्रुतसम्पच्चतुर्द्धा-बहुश्रुतता-युगप्रधानागमतेत्यर्थः, परिचितसूत्रता-उत्क्रमक्रमवाचनादिभिः स्थिरसूत्रता, विचित्रसूत्रता-स्वसमयादिभेदात्२, घोषविशुद्धिकरणताउदात्तादिविज्ञानात् । शरीरसम्पच्चतुर्द्धा - आरोहपरिणाहयुक्तता-उचितदैर्ध्यादिविस्तरतेत्यर्थ:१, अनवत्रप्यता-अलज्जनीयाङ्गता, परिपूर्णेन्द्रियता अनुपहतचक्षुरादिकरणतारे, स्थिरसंहननतातप:प्रभृतिषु शक्तियुक्तता। __ वचनसम्पच्चतुर्द्धा - आदेयवचनता', मधुरवचनता२, अनिश्रितवचनता मध्यस्थवचनतेत्यर्थः३, असन्दिग्धवचनता। वाचनासम्पच्चतुर्की - विदित्वोद्देशनं-परिणामकादिकं शिष्यं ज्ञात्वेत्यर्थः१, विदित्वा समुद्देशनम्, परिनिर्वाप्य वाचना-पूर्वदत्तालापकान् शिष्यमधिगमय्य पुनः सूत्रदानम्, अर्थनिर्वापणा-अर्थस्य पूर्वापरसाङ्गत्येन गमनिका । मतिसम्पच्चतुर्धा - अवग्रहहावायधारणाभेदात् ।
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy