________________
४४
गुरोर्माहात्म्यम् ससमयपरसमयविऊ, गम्भीरो दित्तिमं सिवो सोमो ।
गुणसयकलिओ जुत्तो, पवयणसारं परिकहेइ ॥४॥" (छाया- देशकुलजातिरूपी संहननी धृतियुतो अनाशंसी ।
अविकत्थनो अमायी, स्थिरपरिपाटिः ग्राह्यवाक्यः ॥१॥ जितपर्षद् जितनिद्रः, मध्यस्थः देशकालभावज्ञः । आसन्नलब्धप्रतिभः, नानाविधदेशभाषाज्ञः ॥२॥ पञ्चविधे आचारे, युक्तः सूत्रार्थतदुभयविधिज्ञः । आहरणहेतुकारणनयनिपुणः ग्राहणाकुशलः ॥३॥ स्वसमयपरसमयविद्, गम्भीरः दीप्तिमान् शिवः सोम्यः ।
गुणशतकलितो युक्तः, प्रवचनसारं परिकथयति ॥४॥) वृत्तिः- तत्र आर्यदेशोद्भूतः सुखावबोधवचनो भवति ततो देशग्रहणम्, कुलंपैतृकमिक्ष्वाक्वादि, तज्जातश्च यथोत्क्षिप्तभारवहने न श्राम्यति, जातिर्मातृकी, तत्सम्पन्नो हि विनयादिगुणवान् स्यात् । “यत्राकृतिस्तत्र गुणा भवन्ति" इति रूपग्रहणम्, संहननधृतियुतो न व्याख्यानादिषु खेदमेति, अनाशंसी-श्रोतृभ्यो न वस्त्राद्याकाङ्क्षति, अविकत्थनोहितभितभाषी', अमायी-विश्वास्यः९, स्थिरपरिपाटि:-स्थिरपरिचितग्रन्थस्य सूत्रार्थगलनाभावात्१०, ग्राह्यवाक्यः-सर्वत्रास्खलिताज्ञ:११, जितपरिषद् राजादिसदस्यपि न क्षोभमुपयाति१२, जितनिद्रो निद्राप्रमादिनः शिष्यान् सुखेनैव बोधयति१३, मध्यस्थः - शिष्येषु समचित्त:१४, देशकालभावज्ञः-सुखेनैव गुणवद्देशादौ विहरति१७, आसन्नलब्धप्रतिभो द्राक् परवाद्युत्तरदानसमर्थ:१८, नानाविधदेशभाषाज्ञः-नानादेशजान् शिष्यान् सुखेनैवावबोधयति१९, ज्ञानाद्याचारपञ्चकयुक्तः श्रद्धेयवचनः स्यात्२४, सूत्रार्थतदुभयविधिज्ञः उत्सर्गापवादप्रपञ्चं यथावद् ज्ञापयति२५, आहरणं-दृष्टान्तः, हेतुरन्वयव्यतिरेकवान्, कारणं दृष्टान्तादिरहितमुपपत्तिमात्रम्, नया नैगमादयः, एषु निपुणः सुखेनैतान् प्रयुङ्क्ते२९, ग्राहणाकुशल: बह्वीभियुक्तिभिः शिष्यान् बोधयति३०, स्वसमयपरसमयज्ञः सुखेनैव तत्स्थापनाव्यूहौ विधत्ते३२, गम्भीरोऽलब्धमध्य:३३, दीप्तिमान्-पराधृष्य:३४, शिवहेतुत्वाच्छिवः, तदधिष्ठिते देशे मार्याधुपशमनात्३५, सौम्यः सर्वजनमनोनयनरमणीय:३६, गुणशतकलितः प्रश्रयाद्यनेकगुणोपेतो युक्तोऽर्हत्प्रवचनसारं परिकथयितुं प्रवचनानुयोगयोग्यो भवतीत्यर्थः ।
अथवा एवं षट्त्रिंशद् गुणाः -