________________
गुरोर्माहात्म्यम्
जागरणोपायमाह - आलोकितं निरीक्षितम् इङ्गितमेव च अन्यथावृत्तिलक्षणं ज्ञात्वा विज्ञायाचार्यीयं यः साधुः छन्दः अभिप्रायमाराधयति । यथा शीते पतति प्रावरणावलोकने तदानयने, इङ्गिते वा निष्ठीवनादिलक्षणे शुण्ठ्याद्यानयनेन स पूज्यः स इत्थम्भूतः साधुः पूजार्हः, कल्याणभागिति सूत्रार्थः ॥९/३/१॥
४२
प्रक्रान्ताधिकार एवाह - आचारार्थं ज्ञानाद्याचारनिमित्तं विनयम् उक्तलक्षणं प्रयुङ्क्ते करोति यः शुश्रूषन् श्रोतुमिच्छन्, किमयं वक्ष्यतीत्येवम् । तदनु तेनोक्ते सति परिगृह्य वाक्यम् आचार्यीयं ततश्च यथोपदिष्टं यथोक्तमेव अभिकाङ्क्षन्, मायारहितः श्रद्धया कर्त्तुमिच्छन् विनयं प्रयुङ्क्ते, अतोऽन्यथाकरणेन 'गुरुं त्वि'ति आचार्यमेव 'नाशातयति' न यति यः स पूज्य इति सूत्रार्थः ॥९/३/२॥'
श्रीभद्रबाहुस्वामिसन्दृब्ध- आवश्यकनिर्युक्तावुक्तम् -
(छाया
गुरुपरितोषगतेन, गुरुभक्त्या तथैव विनयेन । इष्टसूत्रार्थानां, क्षिप्रं पारं समुपयान्ति ॥ ७१० || ) श्रीशान्तिसूरिविरचितधर्मरत्नप्रकरणे तद्वृत्तौ चोक्तम्
(छाया
-
'गुरुपरिओसगएणं, गुरुभत्तीए तहेव विणणं । इच्छियसुत्तत्थाणं, खिप्पं पारं समुवयंति ॥ ७१०॥'
-
'जो गुरुमवमन्नंतो आरंभइ किर असक्कमवि किंचि । सिवभूइ व्व न एसो सम्मारंभी महामोहा ॥ ११९॥
यो गुरुमवमन्यमान आरभते किल अशक्यमपि किञ्चित् । शिवभूतिरिव न एष सम्यगारम्भो महामोहात् ॥ ११९॥)
वृत्तिः- यः कश्चिन्मन्दमतिर्गुरुं-धर्माचार्यमवमन्यमानो 'हीनाचारोऽयम्' इत्यवज्ञया पश्यन्नारभते-प्रकर्तुं प्रतिजानीतेऽशक्यमपि - कालसंहननाननुरूपं जिनकल्पादिकमपि गुरुभिरक्रियमाणमेव, न तु शेषमनुष्ठानमिति प्रकृतम्, शिवभूतिरिव आद्यदिगम्बरवत् नैवैषप्रक्रान्त पुरुषः सम्यगारम्भः - सत्प्रवृत्तिर्महामोहाद्धेतोः, अयमाशयः - नाकृतज्ञताऽज्ञानातिरेकौ विना कश्चिद् गुरोः परमोपकारिणश्छायाभ्रंशायोत्सहते इति गाथाक्षरार्थः । भावार्थः कथानकगम्यः । महामोहता चास्य गुराववज्ञाबुद्ध्याऽऽत्मानमुन्नमयितुं प्रवृत्तत्वात् द्रष्टव्या । गुर्वाज्ञया शासनोन्नतिकारिणो लब्धिख्यातिनिरपेक्षस्य साधोरधिकतपः कर्मातापनादिकरणं च वीर्याचाराराधनरूपत्वाद् गुणकरमेवेति ॥११९॥