________________
४१
गुरोर्माहात्म्यम् हेतुभिः यथानुरूपैः कारणैः किमित्याह - तेन तेनोपायेन - गृहस्थावर्जनादिना तत्तत् पित्तहरादिरूपमशनादि सम्प्रतिपादयेत्, यथा काले शरदादौ पित्तहरादिभोजनं प्रवातनिवातादिरूपा शय्या इच्छानुलोमं वा यद्यस्य हितं रोचते च आराधनाप्रकारोऽनुलोमं भाषणं ग्रन्थाभ्यासवैयावृत्त्यकरणादि देशे अनूपदेशाधुचितं निष्ठीवनादिभिर्हेतुभिः श्लेष्माद्याधिक्यं विज्ञाय तदुचितं सम्पादयेदिति सूत्रार्थः ॥९/२/२०॥
निद्देसवित्ती पुण जे गुरूणं, सुअत्थधम्मा विणयंमि कोविआ।
तरित्तु ते ओघमिणं दुरुत्तरं, खवित्तु कम्मं गइमुत्तमं गय ॥९/२/२३॥ त्ति बेमि । (छाया - निर्देशवर्तिनः पुनर्ये गुरूणां, श्रुतार्थधर्मा विनये कोविदाः ।
___ तीर्ला ते ओघमेनं दुरुत्तरं, क्षपयित्वा कर्म गतिमुत्तमां गताः ॥९/२/२३॥ इति ब्रवीमि)
वृत्तिः- विनयफलाभिधानेनोपसंहरन्नाह-निर्देश:-आज्ञा तद्वर्तिनः पुनर्ये गुरूणाम् आचार्यादीनां श्रुतार्थधर्मा इति प्राकृतशैल्या श्रुतधर्मार्था गीतार्था इत्यर्थः, विनये कर्तव्ये कोविदा-विपश्चितो य इत्थम्भूतास्तीवा॑ ते महासत्त्वा ओघमेनं प्रत्यक्षोपलक्ष्यमानं संसारसमुद्रं दुरुत्तारं तीāव तीर्वा, चरमभवं केवलित्वं च प्राप्येति भावः, ततः क्षपयित्वा कर्म निरवशेषं भवोपग्राहिसञ्जितं गतिमुत्तमां सिद्ध्याख्यां गताः प्राप्ताः । इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥९/२/२३॥
आयरिअं अग्गिमिवाहिअग्गी, सुस्सूसमाणो पडिजागरिज्जा। आलोइअं इंगिअमेव नच्चा, जो छंदमाराहयई स पुज्जो ॥९/३/१॥ आयरमट्ठा विणयं पउंजे, सुस्सूसमाणो परिगिज्झ वक्कं। जहोवइष्टुं अभिकंखमाणो, गुरुं तु नासाययई स पुज्जो ॥९/३/२॥ (छाया - आचार्य अग्निमिवाहिताग्निः, शुश्रूषमाणः प्रतिजागृयात् ।
आलोकितं इङ्गितमेव ज्ञात्वा, यः छन्द: आराधयति स पूज्यः ॥९/३/१॥ आचारार्थं विनयं प्रयुङ्क्ते, शुश्रूषन् परिगृह्य वाक्यम् ।
यथोपदिष्टं अभिकाङ्क्षन्, गुरुं तु नाशातयति स पूज्यः ॥९/३/२॥) वृत्तिः- साम्प्रतं तृतीय आरभ्यते, इह च विनीतः पूज्य इत्युपदर्शयन्नाह - आचार्य सूत्रार्थप्रदं तत्स्थानीयं वाऽन्यं ज्येष्ठार्य, किमित्याह - अग्निमिव तेजस्कायमिव आहिताग्निः ब्राह्मणः शुश्रूषमाणः सम्यक्सेवमानः प्रतिजागृयात् तत्तत्कृत्यसम्पादनेनोपचरेत् । आह - यथाऽऽहिताग्निरित्यादिना प्रागिदमुक्तमेव, सत्यं, किं तु तदाचार्यमेवाङ्गीकृत्य इदं तु रत्नाधिकादिकमप्यधिकृत्योच्यते, वक्ष्यति च - 'रायणीएसु विणय'मित्यादि, प्रति