________________
गुरोर्माहात्म्यम् (छाया - नीचां शय्यां गतिं स्थानं, नीचानि च आसनानि च ।
नीचं च पादौ वन्देत, नीचं कुर्यात् अञ्जलिम् ॥९/२/१७।। सङ्कट्य कायेन, तथा उपधिनाऽपि । क्षमस्व अपराधं मे, वदेद् न पुनरिति च ॥९/२/१८।। दुर्गौरिव प्रतोदेन, चोदित: वहति रथम् । --- एवं दुर्बुद्धिः कृत्यानां, उक्तः उक्तः प्रकरोति ॥९/२/१९।। आलपन् लपन् वा, न निषद्यायां प्रतिशृणुयात् । मुक्त्वा आसनं धीरः, शुश्रूषया प्रतिशृणुयात् ॥ कालं छन्दः उपचारं च, प्रतिलिख्य हेतुभिः ।
तेन तेन उपायेन, तत् तत् सम्प्रतिपादयेत् ।।९/२/२०।।) वृत्तिः- विनयोपायमाह-नीचां शय्यां संस्तारकलक्षणामाचार्यशय्यायाः सकाशात्कुर्यादिति योगः, एवं नीचां गतिं आचार्यगतेः, तत्पृष्ठतो नातिदूरेण नातिद्रुतं यायादित्यर्थः, एवं नीचं स्थानमाचार्यस्थानात्, यत्राचार्य आस्ते तस्मान्नीचतरे स्थाने स्थातव्यमिति भावः । तथा नीचानि लघुतराणि कदाचित्कारणजाते आसनानि पीठकानि तस्मिन्नुपविष्टे तदनुज्ञातः सेवेत, नान्यथा, तथा नीचं च सम्यगवनतोत्तमाङ्गः सन् पादावाचार्यसत्कौ वन्देत, नावज्ञया, तथा क्वचित्प्रश्नादौ नीचं नम्रकायं कुर्यात् सम्पादयेच्चाञ्जलिं, न तु स्थाणुवत्स्तब्ध एवेति सूत्रार्थः ॥९/२/१७॥
एवं कायविनयमभिधाय वाग्विनयमाह - 'संघट्टिय' स्पृष्ट्वा कायेन देहेन कथञ्चितथाविधप्रदेशोपविष्टमाचार्यं तथा उपधिनापि कल्पादिना कथञ्चित्सङ्घट्य मिथ्यादुष्कृतपुरःसरमभिवन्द्य क्षमस्व अपराधं दोषं मे मन्दभाग्यस्यैवं वदेद् ब्रूयात् न पुनरिति च नाहमेनं भूयः करिष्यामीति सूत्रार्थः ॥९/२/१८॥
एतच्च बुद्धिमान् स्वयमेव करोति, तदन्यस्तु कथमित्याह - दुर्गौरिव गलिबलीवर्दवत् प्रतोदेन आरादण्डलक्षणेन चोदितो विद्धः सन् वहति नयति क्वापि रथं प्रतीतम्, एवं दुर्गौरिव दुर्बुद्धिः अहितावहबुद्धिः शिष्यः कृत्यानाम् आचार्यादीनां कृत्यानि वा तदभिरुचितकार्याणि उक्त उक्तः पुनः पुनरभिहित इत्यर्थः, प्रकरोति निष्पादयति प्रयुङ्क्ते चेति सूत्रार्थः ॥९/२/१९॥
एवं च कृतान्यमूनि न शोभनानीत्यतः (आह) - कालं शरदादिलक्षणं, छन्दः तदिच्छारूपम् उपचारम् आराधनाप्रकारं, चशब्दाद्देशादिपरिग्रहः, एतत् प्रत्युपेक्ष्य ज्ञात्वा