SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ३७ गुरोर्माहात्म्यम् एतदेव स्पष्टयति – 'जस्स'त्ति सूत्रं, यस्यान्तिके यस्य समीपे धर्मपदानि धर्मफलानि सिद्धान्तपदानि शिक्षेत आदद्यात् तस्यान्तिके तत्समीपे किमित्याह - वैनयिकं प्रयुञ्जीत विनय एव वैनयिकं तत्कुर्यादिति भावः, कथमित्याह सत्कारयेदभ्युत्थानादिना पूर्वोक्तेन शिरसा उत्तमाङ्गेन प्राञ्जलिः प्रोद्गताञ्जलिः सन् कायेन देहेन गिरा वाचा मस्तकेन वन्दे इत्यादिरूपया 'भो' इति शिष्यामन्त्रणं मनसा च भावप्रतिबन्धरूपेण नित्यं सदैव सत्कारयेत्, न तु सूत्रग्रहणकाल एव, कुशलानुबन्धव्यवच्छेदप्रसङ्गादिति सूत्रार्थः ॥९/१/१२॥ एवं च मनसि कुर्यादित्याह - 'लज्जा दय'त्ति सूत्रं, लज्जा अपवादभयरूपा दया अनुकम्पा संयमः पृथिव्यादिजीवविषयः ब्रह्मचर्यं विशुद्धतपोऽनुष्ठानम्, एतल्लज्जादि विपक्षव्यावृत्त्या कुशलपक्षप्रवर्तकत्वेन कल्याणभागिनो जीवस्य विशोधिस्थानं कर्ममलापनयनस्थानं वर्तते, अनेन ये मां गुरव आचार्याः सततम् अनवरतम् अनुशासयन्ति कल्याणयोग्यतां नयन्ति तानहमेवंभूतान् गुरून् सततं पूजयामि, न तेभ्योऽन्यः पूजार्ह इति सूत्रार्थः ॥९/१/१३॥ ___ इतश्चैते पूज्या इत्याह - 'जह'त्ति सूत्रं, यथा निशान्ते रात्र्यवसाने दिवस इत्यर्थः, तपन् अचिर्माली सूर्यः प्रभासयति उद्योतयति केवलं सम्पूर्ण भारतं भरतक्षेत्रं, तुशब्दादन्यच्च क्रमेण एवम् - अचिर्मालीवाचार्यः श्रुतेन आगमेन शीलेन परद्रोहविरतिरूपेण बुद्ध्या च स्वाभाविक्या युक्तः सन् प्रकाशयति जीवादिभावानिति । एवं च वर्तमानः सुसाधुभिः परिवृतो विराजते सुरमध्य इव सामानिकादिमध्यगत इव इन्द्र इति सूत्रार्थः ॥९/१/१४॥ किञ्च - 'जह'त्ति सूत्रं, यथा शशी चन्द्रः कौमुदीयोगयुक्तः कार्तिकपौर्णमास्यामुदित इत्यर्थः, स एव विशेष्यते - नक्षत्रतारागणपरिवृतात्मा नक्षत्रादिभिर्युक्त इति भावः, खे आकाशे शोभते, किं विशिष्टे खे ? - विमलेऽभ्रमुक्त अभ्रमुक्तमेवात्यन्तं विमलं (तत्) भवतीति ख्यापनार्थमेतत्, एवं चन्द्र इव गणी आचार्यः शोभते भिक्षुमध्ये साधुमध्ये, अतोऽयं महत्त्वात्पूज्य इति सूत्रार्थः ॥९/१/१५।। किञ्च - 'महागर'त्ति सूत्रं, महाकरा ज्ञानादिभावरत्नापेक्षया आचार्या महैषिणो मोक्षैषिणः, कथं महैषिण इत्याह - समाधियोगश्रुतशीलबुद्धिभिः समाधियोगैः-ध्यानविशेषैः श्रुतेन-द्वादशाङ्गाभ्यासेन शीलेन-परद्रोहविरतिरूपेण बुद्ध्या च औत्पत्तिक्यादिरूपया, अन्ये तु व्याचक्षते-समाधियोगश्रुतशीलबुद्धीनां महाकरा इति । तानेवंभूतानाचार्यान् सम्प्राप्तुकामोऽनुत्तराणि ज्ञानादीनि आराधयेद्विनयकरणेन, न सकृदेव, अपि तु तोषयेद् असकृत्करणेन तोषं ग्राहयेत् धर्मकामो-निर्जरार्थं, न तु ज्ञानादिफलापेक्षयाऽपीति सूत्रार्थः ॥९/१/१६॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy