SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ गुरोर्माहात्म्यम् 'सोच्वाण'त्ति सूत्रं श्रुत्वा मेधावी सुभाषितानि गुर्वाराधनफलाभिधायीनि, किमित्याह - शुश्रूषयेदाचार्यान् अप्रमत्तो निद्रादिरहितस्तदाज्ञां कुर्वीतेत्यर्थः, य एवं गुरुशुश्रूषापरः स आराध्य गुणान् अनेकान् ज्ञानादीन् प्राप्नोति सिद्धिमनुत्तरां, मुक्तिमित्यर्थः, अनन्तरं सुकुलादिपरम्परया वा । ब्रवीमीति पूर्ववदयं सूत्रार्थः ॥९/१/१७॥ ३८ (छाया जे आयरिअउवज्झायाणं, सुस्सूसावयणंकरा । तेसिं सिक्खा पवडुंति, जलसित्ता इव पायवा ॥९/२/१२॥ अप्पा पट्टा वा, सिप्पा णेउणिआणि अ । गिहिणो उवभोगट्ठा, इहलोगस्स कारणा ॥९/२/१३॥ जेणं बंधं वहं घोरं, परिआवं च दारुणं । सिक्खमाणा निअच्छंति, जुत्ता ते ललिइंदिआ ॥९/२/१४॥ तेऽवि तं गुरुं पूअंति, तस्स सिप्पस्स कारणा । सक्कारंति नर्मसंति, तुट्टा निद्देसवत्तिणो ॥९/२/१५॥ किं पुण जे सुअग्गाही, अणंतहिअकामए । आयरिआ जं वए भिक्खू, तम्हा तं नाइवत्त ॥९/२/१६ ॥ ये आचार्योपाध्यायानां, शुश्रूषावचनकराः । तेषां शिक्षाः प्रवर्द्धन्ते, जलसिक्ता इव पादपाः ||९ / २ / १२ ॥ आत्मार्थं परार्थं वा, शिल्पानि नैपुण्यानि च । गृहिणः उपभोगार्थं, इहलोकस्य कारणात् ॥९/२/१३॥ येन बन्धं वधं घोरं परितापं च दारुणम् । शिक्षमाणा नियच्छन्ति, युक्ता ते ललितेन्द्रियाः ॥९/२/१४॥ तेऽपि तं गुरुं पूजयन्ति तस्य शिल्पस्य कारणात् । सत्कारयन्ति नमस्यन्ति, तुष्टा निर्देशवर्त्तिनः ॥९/२/१५॥ किं पुनः यः श्रुतग्राही, अनन्तहितकामुकः । आचार्या यद् वदन्ति भिक्षुः, तस्मात् तत् नातिवर्तेत ॥९/२/१६) वृत्तिः-अधुना विशेषतो लोकोत्तरविनयफलमाह - 'जे आयरिअ'त्ति सूत्रं, य आचार्योपाध्याययोः - प्रतीतयोः शुश्रूषावचनकराः पूजाप्रधानवचनकरणशीलास्तेषां पुण्यभाजां शिक्षा ग्रहणासेवनालक्षणा भावार्थरूपाः प्रवर्द्धन्ते वृद्धिमुपयान्ति, दृष्टान्तमाह - जलसिक्ता इव पादपा
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy