________________
३६
गुरोर्माहात्म्यम् जहा निसंते तवणच्चिमाली, पभासई केवल भारहं तु । एवायरिओ सुअसीलबुद्धिए, विरायई सुरमज्झे व इंदो ॥९/१/१४॥ जहा ससी कोमुइजोगजुत्तो, नक्खत्ततारागणपरिवुडप्पा । खे सोहई विमले अब्भमुक्के, एवं गणी सोहइ भिक्खुमज्झे ॥९/१/१५॥ महागरा आयरिआ महेसी, समाहिजोगे सुअसीलबुद्धिए । संपाविउकामे अणुत्तराई, आराहए तोसइ धम्मकामी ॥९/१/१६॥ सुच्चाण मेहावि सुभासिआई, सुस्सूसए आयरिअप्पमत्तो।
आराहइत्ताण गुणे अणेगे, से पावई सिद्धिमणुत्तरं ॥९/१/१७॥ त्ति बेमि । (छाया - यथा आहिताग्नि: ज्वलनं नमस्यति, नानाहुतिमन्त्रपदाभिषिक्तम् ।
एवमाचार्यं उपतिष्ठेत्, अनन्तज्ञानोपगतोऽपि सन् ॥९/१/११।। यस्यान्तिके धर्मपदानि शिक्षेत, तस्यान्तिके वैनयिकं प्रयुञ्जीत । सत्कारयेत् शिरसा प्राञ्जलिः, कायगिरा भो मनसा च नित्यम् ॥९/१/१२॥ लज्जा दया संयमः ब्रह्मचर्य, कल्याणभागिनः विशोधिस्थानम् । ये मां गुरवः सततमनुशासयन्ति, तानहं गुरून् सततं पूजयामि ॥९/१/१३॥ यथा निशान्ते तपन् अचिर्माली, प्रभासयति केवलं भारतं तु । एवमाचार्यः श्रुतशीलबुद्ध्या, विराजते सुरमध्ये इव इन्द्रः ॥९/१/१४।। यथा शशी कौमुदीयोगयुक्तः, नक्षत्रतारागणपरिवृतात्मा । खे शोभते विमले अभ्रमुक्ते, एवं गणी शोभते भिक्षुमध्ये ॥९/१/१५॥ महाकरा आचार्या महैषिणः, समाधियोगश्रुतशीलबुद्धिभिः । सम्प्राप्तुकामः अनुत्तराणि, आराधयेत् तोषयेत् धर्मकामी ॥९/१/१६॥ श्रुत्वा मेधावी सुभाषितानि, शुश्रूषयेत् आचार्यान् अप्रमत्तः ।
आराध्य गुणान् अनेकान्, स प्राप्नोति सिद्धिमनुत्तराम् ॥९/१/१७॥ इति ब्रवीमि ।) वृत्तिः- केन प्रकारेणेत्याह - 'जहाहिअग्गि'त्ति सूत्रं, यथा आहिताग्निः कृतावसथादिाह्मणो ज्वलनम् अग्नि नमस्यति, किंविशिष्टमित्याह - नानाहुतिमन्त्रपदाभिषिक्तं तत्राहुतयो-घृतप्रक्षेपादिलक्षणा मन्त्रपदानि-अग्नये स्वाहेत्येवमादीनि तैरभिषिक्तं-दीक्षासंस्कृतमित्यर्थः, एवम् अग्निमिवाचार्यम् उपतिष्ठेत् विनयेन सेवेत, किविशिष्ट इत्याह - 'अनन्तज्ञानोपगतोऽपी 'ति अनन्तं स्वपरपर्यायापेक्षया वस्तु ज्ञायते येन तदनन्तज्ञानं तदुपगतोऽपि सन्, किमङ्ग पुनरन्य इति सूत्रार्थः ॥९/१/११॥