SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ गुरोर्माहात्म्यम् किञ्च - 'जो पावगं'ति सूत्रं, यः पावकम् अग्नि ज्वलितं सन्तम् अपक्रामेद् अवष्टभ्य तिष्ठति, आशीविषं वापि हि भुजङ्गमं वापि हि कोपयेत् रोषं ग्राहयेत्, यो वा विषं खादति जीवितार्थी जीवितुकामः, एषोपमा अपायप्राप्ति प्रत्येतदुपमानम्, आशातनया कृतया गुरूणां सम्बन्धिन्या तद्वदपायो भवतीति सूत्रार्थः ॥९/१/६॥ ___अत्र विशेषमाह - "सिआ हुत्ति सूत्रं, स्यात् कदाचिन्मन्त्रादिप्रतिबन्धादसौ पावकः अग्नि: न दहेत् न भस्मसात्कुर्यात्, आशीविषो वा भुजङ्गो वा कुपितो न भक्षयेत् न खादयेत्, तथा स्यात् कदाचिन्मन्त्रादिप्रतिबन्धादेव विषं हालाहलम् अतिरौद्रं न मारयेत् न प्राणांस्त्याजयेत्, एवमेतत्कदाचिद्भवति न चापि मोक्षो गुरुहीलनया गुरोराशातनया कृतया भवतीति सूत्रार्थः ॥९/१/७॥ किञ्च - 'जो पव्वयंति सूत्रं, यः पर्वतं शिरसा उत्तमाङ्गेन भेत्तुमिच्छेत्, सुप्तं वा सिंहं गिरिगुहायां प्रतिबोधयेत्, यो वा ददाति शक्त्यग्रे प्रहरणविशेषाग्रे प्रहारं हस्तेन, एषोपमाऽऽशातनया गुरूणामिति पूर्ववदेवेति सूत्रार्थः ॥९/१/८॥ अत्र विशेषमाह - 'सिआ हुत्ति सूत्रं, स्यात् कदाचित्कश्चिद्वासुदेवादिः प्रभावातिशयाच्छिरसा गिरिमपि पर्वतमपि भिन्द्यात्, स्यान्मन्त्रादिसामर्थ्यात्सिहः कुपितो न भक्षयेत्, स्याद्देवतानुग्रहादेर्न भिन्द्याद्वा शक्त्यग्रं प्रहारे दत्तेऽपि, एवमेतत्कदाचिद्भवति, न चापि मोक्षो गुरुहीलनया गुरोराशातनया भवतीति सूत्रार्थः ॥९/१/९॥ एवं पावकाद्याशातनाया गुर्वाशातना महतीत्यतिशयप्रदर्शनार्थमाह - 'आयरिअ' त्ति सूत्रं, आचार्यपादाः पुनरप्रसन्ना इत्यादि पूर्वार्धं पूर्ववत्, यस्मादेवं तस्माद् अनाबाधसुखाभिकाङ्क्षी मोक्षसुखाभिलाषी साधुः गुरुप्रसादाभिमुखः आचार्यादिप्रसाद उद्युक्तः सन् रमेत वर्तेत इति सूत्रार्थः ॥९/१/१०॥ जहाहिअग्गी जलणं नमसे, नाणाहुईमंतपयाभिसित्तं । एवायरिअं उवचिठ्ठइज्जा, अणंतनाणोवगओऽवि संतो ॥९॥१/११॥ जस्संतिए धम्मपयाई सिक्खे, तत्संतिए वेणइयं पउंजे। सक्कारए सिरसा पंजलीओ, कायग्गिरा भो मणसा अ निच्चं ॥९/१/१२॥ लज्जा दया संजम बंभचेरं, कल्लाणभागिस्स विसोहिठाणं । जे मे गुरू सययमणुसासयंति, तेऽहं गुरू सययं पूअयामि ॥९/१/१३॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy