SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ गुरोर्माहात्म्यम् वृत्तिः - किं च - 'जे आवि 'त्ति सूत्रं, ये चापि केचन द्रव्यसाधवोऽगम्भीराः किमित्याह मन्द इति गुरुं विदित्वा क्षयोपशमवैचित्र्यात्तन्त्रयुक्त्यालोचनाऽसमर्थः सत्प्रज्ञाविकल इति स्वमाचार्यं ज्ञात्वा । तथा कारणान्तरस्थापितमप्राप्तवयसं डहरोऽयम् अप्राप्तवयाः खल्वयं, तथा अल्पश्रुत इत्यनधीतागम इति विज्ञाय, किमित्याह - हीलयन्ति सूययाऽसूयया वा खिसयन्ति, सूयया अतिप्रज्ञस्त्वं वयोवृद्धो बहुश्रुत इति, असूयया तु मन्दप्रज्ञस्त्वमित्याद्यभिदधति, मिथ्यात्वं प्रतिपद्यमाना इति गुरुर्न हीलनीय इति तत्त्वमन्यथाऽवगच्छन्तः कुर्वन्ति आशातनां लघुतापादनरूपां ते द्रव्यसाधवः गुरूणाम् आचार्याणां, तत्स्थापनाया अबहुमानेन एकगुर्वाशातनायां सर्वेषामाशातनेति बहुवचनम्, अथवा कुर्वन्ति आशातनां स्वसम्यग्दर्शनादिभावापासरूपां ते गुरूणां सम्बन्धिनीं, तन्निमित्तत्वादिति सूत्रार्थः ॥९/१/२॥ ३४ अतो न कार्या हीलनेति, आह च - 'पगइ 'त्ति सूत्रं, प्रकृत्या स्वभावेन कर्मवैचित्र्यात् मन्दा अपि सद्बुद्धिरहिता अपि भवन्ति एके केचन वयोवृद्धा अपि तथा डहरा अपि च अपरिणता अपि च वयसाऽन्येऽमन्दा भवन्तीति वाक्यशेषः, किंविशिष्टा इत्याह- ये च श्रुतबुद्ध्यपपेताः तथा सत्प्रज्ञावन्तः श्रुतेन बुद्धिभावेन वा, भाविनीं वृत्तिमाश्रित्याल्पश्रुता इति, सर्वथा आचारवन्तो ज्ञानाद्याचारसमन्विताः गुणसुस्थितात्मानो गुणेषु सङ्ग्रहोपग्रहादिषु सुष्ठु भावसारं स्थित आत्मा येषां ते तथाविधा न हीलनीया:, ये हीलिता: खिंसिताः शिखीव अग्निरिवेन्धनसङ्घातं भस्मसात्कुर्युः ज्ञानादिगुणसङ्घातमपनयेयुरिति सूत्रार्थः ॥९/१/३॥ विशेषेण डहरहीलनादोषमाह - 'जे आवित्ति सूत्रं, यश्चापि कश्चिदज्ञो नागं सर्पं डहर इति बाल इति ज्ञात्वा विज्ञाय आशातयति किलिञ्चादिना कदर्थयति स कदर्थ्यमानो नागः 'से' तस्य कदर्थकस्य अहिताय भवति भक्षणेन प्राणनाशाय भवति, एष दृष्टान्तोऽयमर्थोपनयः-एवमाचार्यमपि कारणतोऽपरिणतमेव स्थापितं हीलयन् निर्गच्छति जातिपन्थानं द्वीन्द्रियादिजातिमार्गं मन्दः अज्ञः, संसारे परिभ्रमतीति सूत्रार्थः ॥९/१/४ || , अत्रैव दृष्टान्तदार्ष्यन्तिकयोर्महदन्तरमित्येतदाह - 'आसि' त्ति सूत्रं, आशीविषश्चापि सर्पोऽपि परं सुरुष्टः सुक्रुद्धः सन् किं जीवितनाशात् मृत्योः परं कुर्यात् ? न किञ्चिदपीत्यर्थः, आचार्यपादाः पुनः अप्रसन्ना हीलनयाऽननुग्रह प्रवृत्ताः, किं कुर्वन्तीत्याह - अबोधि निमित्तहेतुत्वेन मिथ्यात्वसंहतिं, तदाशातनया मिथ्यात्वबन्धात्, यतश्चैवमत आशातनया गुरोर्नास्ति मोक्ष इति, अबोधिसन्तानानुबन्धेनानन्तसंसारिकत्वादिति सूत्रार्थः ॥९/१/५॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy