SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ३२ गुरोर्माहात्म्यम् 'थंभा व कोहा व मयप्पमाया, गुरुस्सगासे विणयं न सिक्खे । सो चेव उ तस्स अभूइभावो, फलं व कीअस्स वहाय होइ ॥९॥११॥ (छाया - स्तम्भाद्वा क्रोधाद्वा मायाप्रमादात्, गुरोः सकाशे विनयं न शिक्षते । स एव तु तस्य अभूतिभावः, फलमिव कीचकस्य वधाय भवति ॥९।१।१॥) वृत्तिः- 'थंभा वत्ति । अस्य व्याख्या - स्तम्भाद्वा मानाद्वा जात्यादिनिमित्तात् क्रोधाद्वा अक्षान्तिलक्षणात् मायाप्रमादादिति मायातो-निकृतिरूपायाः प्रमादाद्-निद्रादेः सकाशात्, किमित्याह - गुरोः सकाशे आचार्यादेः समीपे विनयम् आसेवनाशिक्षाभेदभिन्नं न शिक्षते नोपादत्ते, तत्र स्तम्भात्कथमहं जात्यादिमान् जात्यादिहीनसकाशे शिक्षामीति, एवं क्रोधात्क्वचिद्वितथकरणचोदितो रोषाद्वा, मायातः शूलं मे क्रियत इत्यादिव्याजेन, प्रमादात्प्रक्रान्तोचितमनवबुध्यमानो निद्रादिव्यासङ्गेन, स्तम्भादिक्रमोपन्यासश्चेत्थमेवामीषां विनयविघ्नहेतुतामाश्रित्य प्राधान्यख्यापनार्थः । तदेवं स्तम्भादिभ्यो गुरोः सकाशे विनयं न शिक्षते अन्ये तु पठन्ति-गुरोः सकाशे विनये न तिष्ठति विनये न वर्त्तते, विनयं नासेवत इत्यर्थः । इह च स एव तु स्तम्भादिविनयशिक्षाविघ्नहेतुः तस्य जडमतेः अभूतिभाव इति अभूतेर्भावोऽभूतिभावः, असम्पद्भाव इत्यर्थः, किमित्याह - वधाय भवति गुणलक्षणभावप्राणविनाशाय भवति, दृष्टान्तमाह - फलमिव कीचकस्य कीचको - वंशस्तस्य यथा फलं वधाय भवति, सति तस्मिंस्तस्य विनाशात्, तद्वदिति सूत्रार्थः ॥९/१/१॥ जे आवि मंदित्ति गुरुं विइत्ता, डहरे इमे अप्पसुअत्ति नच्चा। हीलंति मिच्छं पडिवज्जमाणा, करंति आसायण ते गुरूणं ॥९/१/२॥ पगईइ मंदावि भवंति एगे, डहरावि अजे सुअबुद्धोववेआ। आयारमंतो गुणसुट्टिअप्पा, जे हीलिआ सिहिरिव भास कुज्जा ॥९/१/३॥ जे आवि नागं डहरंति नच्चा, आसायए से अहिआय होइ। एवायरिअंपि हु हीलयंतो, निअच्छई जाइपहं खु मंदो ॥९/१/४॥ आसीविसो वावि परं सुरुट्ठो, किं जीवनासाउ परं नु कुज्जा ?। आयरिअपाया पुण अप्पसन्ना, अबोहिआसायण नत्थि मुक्खो ॥९/१/५॥ जो पावगं जलिअमवक्कमिज्जा, आसीविसं वावि हु कोवइज्जा। जो वा विसं खायइ जीविअट्ठी, एसोवमाऽऽसायणया गुरूणं ॥९/१/६॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy