________________
३१
गुरोर्माहात्म्यम् वितण्डावादं करोषि ?, गत्वा निरीक्षस्व तावत् ।' ततो हृद्यसूयावान् बहिः संवृतिं कृत्वा महता कष्टेन ततः प्रदेशाद् निर्गतः । सिंहद्वारे च निर्गच्छन् पृष्टः केनापि मित्रेण-'भद्र ! क्व गन्तव्यम् ?' तेनासूयया प्रोक्तम् - 'अरण्ये रोझानां लवणदानार्थम् ।' ततो मित्रेणोक्तम्'कोऽयं व्यतिकरः ?' राजपुत्रेण सर्वमपि राजादिष्टं निवेदितम् । मित्रेणोक्तम् - 'यदि राज्ञो ग्रह: संलग्नः, तत् किं तवापि ? गत्वा निवेदय - 'निरीक्षिता मया गङ्गा, पूर्वाभिमुखी वहति' इति ।' तथैवानुष्ठितं राजपुत्रेण । प्रच्छन्नहेरिकेण च निवेदितं राज्ञस्तच्चेष्टितम् । ततो विलक्षेण राज्ञा प्रोक्तम् - 'भव्यम्, साधुरपि परीक्ष्यतां तावत् ।' ततो यः कश्चिदविनीतो राज्ञा लक्षितस्तद्विषये परीक्षार्थं प्रतिपादितेन गुरुणा भणितः शिष्यः-'गत्वा निरीक्षस्व केन मुखेन गङ्गा वहति ? इति ।' ततः 'पूर्वाभिमुखी साऽत्र वहति, इति गुरवोऽपि विदन्त्येव, परं कारणेन केनाप्यत्र भवितव्यम् ।' इति चेतसि निश्चित्य प्रोक्तं तेन-'इच्छाम्यादेशम् ।' इति । अभिधाय च निर्गतः । ततो गतश्च गङ्गायाम्, निरीक्षिता चासौ स्वयम्, पृष्ट्वा च परेभ्यः, शुष्कतृणादिवहनेन चान्वयव्यतिरेकाभ्यां तस्याः पूर्वाभिमुखवाहित्वं निश्चित्य निवेदितमागत्य गुरुभ्यः-'इत्थमित्थं च निश्चिता मया पूर्वाभिमुखी वहति गङ्गा, तत्त्वं तु गुरवो विदन्ति ।' प्रच्छन्नहेरिकेण चास्यापि सम्बन्धिनी चेष्टा सर्वापि राज्ञे निवेदिता ततश्चाभ्युपगतं सहर्षेण राज्ञा गुरुवचनमिति ॥९३२-९३३-९३४॥
किच्चाकिच्चं गुरवो विदंति विणयपडिवत्तिहेउं च ।
उस्सासाइ पमोत्तुं तदणापुच्छाए पडिसिद्धं ॥३४६४॥ (छाया - कृत्याकृत्यं गुरवो विदन्ति विनयप्रतिपत्तिहेतोश्च ।
उच्छ्वासादि प्रमुच्य तदनापृच्छया प्रतिषिद्धम् ॥३४६४॥) वृत्तिः - पाठसिद्धा ॥३४६४॥ यतिशिक्षापञ्चाशिकायामुक्तम्
'गुरुसेवा चेव फुडं, आचारंगस्स पढमसुत्तम्मि ।
इय नाउं निअगुरुसे-वणम्मि कह सीअसि सकण्ण ! ? ॥५॥' (छाया - गुरुसेवा एव स्पष्टं, आचाराङ्गस्य प्रथमसूत्रे ।
इति ज्ञात्वा निजगुरुसेवने कथं सीदसि सकर्ण ! ? ॥५॥) श्रीशय्यंभवसूरिप्रणीत-दशवैकालिकसूत्रे श्रीहरिभद्रसूरिग्रथिततद्वृत्तौ चोक्तम्