________________
३०
गुरुचित्तप्रसादनोपायाने वाह
जो जेण पगारेणं तुस्सइ करण- विणय - ऽणुवत्तीहिं । आराहणाए मग्गो सो च्चिय अव्वाहओ तस्स ॥९३२॥ आगारिंगियकुसलं जइ सेयं वायसं वए पुज्जा । तहवि यसिं न विकूडे विरहम्मि य कारणं पुच्छे ॥९३३॥ निवपुच्छिण गुरुणा भणिओ गंगा कओमुही वहइ । संपाइयवं सीसो जह तह सव्वत्थ कायव्वं ॥ ९३४ ॥ (छाया - यो येन प्रकारेण तुष्यति करण- विनया - ऽनुवृत्तिभिः । आराधनाया मार्गः स एवाऽव्याहतस्तस्य ॥९३२॥
आकारेङ्गितकुशलं यदि श्वेतं वायसं वदेयुः पूज्याः । तथापि च तेषां न विकूटयेद् विरहे च कारणं पृच्छेत् ॥९३३॥
नृपपृष्टेन गुरुणा भणितो गङ्गा कुतोमुखी वहति ? । सम्पादितवान् शिष्यो यथा तथा सर्वत्र कर्तव्यम् ॥९३४॥)
गुरोर्माहात्म्यम्
वृत्ति: - तिस्रोऽपि सुगमाः, नवरं प्रथमगाथायां 'करणे 'त्यादि करणं गुर्वादिष्टस्य सम्पादनम्, विनयोऽभिमुखगमना -ऽऽसनप्रदान - पर्युपास्त्यऽञ्जलिबद्धानुव्रजनादिलक्षणः, अनुवृत्तिस्त्विङ्गितादिना गुरुचित्तं विज्ञाय तदानुकूल्येन वृत्तिः, ताभिः । द्वितीयगाथायामाकारेङ्गितकुशलं शिष्यं प्रति यदि श्वेतं वायसं पूज्या गुरवो वदेयुः, तथापि 'सिं' ति तेषां सम्बन्धि वचो न विकूटयेद् न प्रतिहन्यात् । विरहे च तद्विषयं कारणं पृच्छेदिति । नृपपृष्टेन गुरुणा भणितो 'गङ्गा केन मुखेन वहति ?' ततो यथा सर्वमपि गुरुभणितं शिष्यः सम्पादितवान्, तथा सर्वत्र सर्वप्रयोजनेषु कार्यम्, इति तृतीयगाथाऽक्षरार्थः ।
भावार्थस्तु कथानकेनोच्यते - कन्यकुब्जे पुरे केनचिद् राज्ञा सूरिणा सह गोष्ठीप्रबन्धे प्रोक्तम्- 'राजपुत्रा विनीताः ।' सूरिणा तूक्तम् - 'साधवः ।' ततो विवादे सूरिणाऽभ्यधायि'युष्मदीयः सर्वोत्कृष्टविनयगुणो राजपुत्रः परीक्ष्यते, अस्मदीयस्त्वविनीतो भवतां यः प्रतिभाति स एव साधुः परीक्ष्यते ।' ततोऽभ्युपेतं राज्ञा । समादिष्टश्चातीवविनीततया प्रसिद्धो राजपुत्र:-‘कुतोमुखी गङ्गा वहति ?' इति शोधय । तेनोक्तम्- 'किमिह शोधनीयम् ?, बालानामपि प्रतीतमेवेदम् - पूर्वाभिमुखी गङ्गा प्रवहति इति ।' राज्ञा प्रोक्तम्- 'किमित्यत्रापि