________________
२९
गुरोर्माहात्म्यम्
वृत्ति: - गुरुपरितोषगतेन, गुरौ परितोषजातेनेत्यर्थः, गुरुभक्त्या तथैव विनयेन, उपचारः, विनयो-भावप्रतिबन्धः, ईप्सितसूत्रार्थानां विचित्राणां क्षिप्रं पारं समुपयान्ति, अनेनैव विधिना कर्म्मक्षयोपपत्तेरिति गाथार्थः ॥१००८॥'
भक्तिः
गच्छाचारप्रकीर्णके तद्वृत्तौ चोक्तम्
-
(छाया
-
'गुरुणा कज्जमकज्जे खरकक्कसदुट्ठनिङ्कुरगिराए । भणि तहत्ति सीसा भांति तं गोयमा ! गच्छं ॥५६॥
-
गुरुणा कार्याकार्ये, खरकर्कशदुष्टनिष्ठुरगिरा ।
भणिते तथेति शिष्या भणन्ति तं गौतम ! गच्छम् ॥५६॥)
वृत्ति:- गुरुणा - आचार्येण कार्यं च अकार्यं च कार्याकार्यं तस्मिन् मकारोऽलाक्षणिकः, खरकर्कशदुष्टनिष्ठुरगिरा - अत्यर्थनिष्ठुरतरवाण्या भणिते प्रवृत्तिनिवृत्त्यर्थं कथिते सति 'तहत्ति' तथेति यद्यथा यूयं वदथ तत्तथैवेति यत्र गच्छे शिष्याः विनेयाः भणन्ति प्रतिपद्यन्ते इत्यर्थः, तं गच्छं हे गौतम ! घण्टालालान्यायेन भणन्तीति क्रियाया अत्रापि सम्बन्धाद् भणन्ति प्रतिपादयन्ति तीर्थकरगणधरादय इति शेषः । गाथाछन्दः ॥५६॥' श्रीजिनभद्रगणिक्षमाश्रमणप्रणीत- विशेषावश्यकभाष्ये मलधारिश्रीहेमचन्द्रसूरिकृततद्वृत्तौ चोक्तम् -
-
-
'न केवलं गुरुचित्तोपक्रमः प्रथमं व्याख्यानाङ्गम्, किन्तु यानि कानिचित् सामान्येन शास्त्राद्युपक्रम-पुस्तको - पाश्रया - ऽऽहार - वस्त्रपात्र - सहायादीनि व्याख्यानाऽङ्गानि तानि सर्वाण्यपि गुरुचित्तायत्तानि यतो वर्तन्ते, तस्माद् यथा गुरुचित्तं सुप्रसन्नं भवति तथा कार्यम्, इति दर्शयन्नाह
गुरुचित्तायत्ताइं वक्खाणंगाईं जेण सव्वाइं । तो जेण सुप्पसन्न होइ तयं तं तहा कज्जं ॥९३१॥
(छाया - गुरुचित्तायत्तानि व्याख्यानाङ्गानि येन सर्वाणि ।
-
ततो येन सुप्रसन्नं भवति तत् तत् तथा कार्यम् ॥९३१॥)
वृत्ति:- गतार्थैव, नवरं गुरुचित्तं च तदा सुप्रसन्नं भवति, यदेङ्गिताकाराद्यभिज्ञः शिष्यस्तदुपक्रमानुकूल्येन प्रवर्तते । अतो न गुरुचित्तोपक्रमोऽत्राऽप्रस्तुत इति भावः ॥ ९३९ ॥