SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ २९ गुरोर्माहात्म्यम् वृत्ति: - गुरुपरितोषगतेन, गुरौ परितोषजातेनेत्यर्थः, गुरुभक्त्या तथैव विनयेन, उपचारः, विनयो-भावप्रतिबन्धः, ईप्सितसूत्रार्थानां विचित्राणां क्षिप्रं पारं समुपयान्ति, अनेनैव विधिना कर्म्मक्षयोपपत्तेरिति गाथार्थः ॥१००८॥' भक्तिः गच्छाचारप्रकीर्णके तद्वृत्तौ चोक्तम् - (छाया - 'गुरुणा कज्जमकज्जे खरकक्कसदुट्ठनिङ्कुरगिराए । भणि तहत्ति सीसा भांति तं गोयमा ! गच्छं ॥५६॥ - गुरुणा कार्याकार्ये, खरकर्कशदुष्टनिष्ठुरगिरा । भणिते तथेति शिष्या भणन्ति तं गौतम ! गच्छम् ॥५६॥) वृत्ति:- गुरुणा - आचार्येण कार्यं च अकार्यं च कार्याकार्यं तस्मिन् मकारोऽलाक्षणिकः, खरकर्कशदुष्टनिष्ठुरगिरा - अत्यर्थनिष्ठुरतरवाण्या भणिते प्रवृत्तिनिवृत्त्यर्थं कथिते सति 'तहत्ति' तथेति यद्यथा यूयं वदथ तत्तथैवेति यत्र गच्छे शिष्याः विनेयाः भणन्ति प्रतिपद्यन्ते इत्यर्थः, तं गच्छं हे गौतम ! घण्टालालान्यायेन भणन्तीति क्रियाया अत्रापि सम्बन्धाद् भणन्ति प्रतिपादयन्ति तीर्थकरगणधरादय इति शेषः । गाथाछन्दः ॥५६॥' श्रीजिनभद्रगणिक्षमाश्रमणप्रणीत- विशेषावश्यकभाष्ये मलधारिश्रीहेमचन्द्रसूरिकृततद्वृत्तौ चोक्तम् - - - 'न केवलं गुरुचित्तोपक्रमः प्रथमं व्याख्यानाङ्गम्, किन्तु यानि कानिचित् सामान्येन शास्त्राद्युपक्रम-पुस्तको - पाश्रया - ऽऽहार - वस्त्रपात्र - सहायादीनि व्याख्यानाऽङ्गानि तानि सर्वाण्यपि गुरुचित्तायत्तानि यतो वर्तन्ते, तस्माद् यथा गुरुचित्तं सुप्रसन्नं भवति तथा कार्यम्, इति दर्शयन्नाह गुरुचित्तायत्ताइं वक्खाणंगाईं जेण सव्वाइं । तो जेण सुप्पसन्न होइ तयं तं तहा कज्जं ॥९३१॥ (छाया - गुरुचित्तायत्तानि व्याख्यानाङ्गानि येन सर्वाणि । - ततो येन सुप्रसन्नं भवति तत् तत् तथा कार्यम् ॥९३१॥) वृत्ति:- गतार्थैव, नवरं गुरुचित्तं च तदा सुप्रसन्नं भवति, यदेङ्गिताकाराद्यभिज्ञः शिष्यस्तदुपक्रमानुकूल्येन प्रवर्तते । अतो न गुरुचित्तोपक्रमोऽत्राऽप्रस्तुत इति भावः ॥ ९३९ ॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy