________________
गुरोर्माहात्म्यम् उक्तमेव समर्थयति -
गुरुआणाइ कुणंता, संजमजत्तं खवित्तु कम्ममलं ।
सुद्धमकलंकमउलं, आयसहावं उवलहंति ॥४/१६०॥ (छाया - गुर्वाज्ञया कुर्वन्तः, संयमयत्नं क्षपयित्वा कर्ममलम् ।
शुद्धमकलङ्कमतुलं, आत्मस्वभावं उपलभन्ते ॥४/१६०॥) वृत्तिः- 'गुरुआणाइ'त्ति । गुर्वाज्ञया संयमयलं कुर्वन्तः सर्वथा गलितासद्ग्रहत्वेन कर्ममलं अध्यात्मप्राप्तिप्रतिबन्धककर्ममालिन्यं क्षपयित्वा शुद्धं पर्यायक्रमेण तेजोलेश्याऽभिवृद्ध्या शुक्लशुक्लाभिजात्यभावादतिनिर्मलं अकलङ्क क्रोधादिकालिकानाकलिततया कलङ्करहितं अतुलं सहजानन्दनिःस्यन्दसुन्दरतयाऽनन्योपमेयमात्मस्वभावमुपलभन्ते ॥४/१६०॥' श्रीश्रीधरविरचित-गुरुस्थापनाशतके उक्तम् -
'जइ गुरुआणाभट्ठो सुचिरं पि तवं तवेइ जो तिव्वं । सो कूलवालयं पिव पणठ्ठधम्मो लहइ कुगई ॥७६॥ अणमण्णंतो नियगुरुवयणं जाणंतओ वि सुत्तत्थं । इक्कारसंगनिउणो वि भवे जमालिव्व लहइ दुहं ॥७७॥ संपइ सुगुरुहि विणा छउमत्थाणं न कोई आहारो । साहूण जओ विरहे सड्ढा वि हु मिच्छगा जाया ॥७८॥ गुरुनिण्हवणे विज्जा गहिया वि बहुज्जमेण पुरिसाणं ।
जायइ अणत्थहेऊ रथनेउरपवरमल्लुव्व ॥८४॥' (छाया - यदि गुर्वाज्ञाभ्रष्टः सुचिरमपि तपः तपति यः तीव्रम् ।
स कूलवालक इव प्रणष्टधर्मः लभते कुगतिम् ।।७६।। अवमन्यमानः निजगुरुवचनं जानन्नपि सूत्रार्थम् । एकादशाङ्गनिपुणोऽपि भवे जमालीव लभते दुःखम् ॥७७॥ सम्प्रति सुगुरुभिः विना छद्मस्थानां न कोऽपि आधारः । साधूनां यतो विरहे श्राद्धा अपि खलु मिथ्यात्वगा जाताः ॥७८॥