SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ २६ गुरोर्माहात्म्यम् शक्ताः, जे इति पादपूरणार्थो निपातः, तत्र गुरुगुणगणकीर्तने भक्तिप्रेरितानामप्यन्येषां मादृशमनुजानां का शक्तिः ? । तथा चानिर्वचनीयानन्तगुणगरिमभाजनं गुरुरिति कियन्तस्तद्गुणा वक्तुं शक्यन्ते ?, श्रोतृप्रोत्साहनार्थं दिग्दर्शनमात्रं पुनरेतदिति भावः ॥१/१०॥ यत एवं तत आह इत्तो गुरुकुलवासो, पढमायारो णिदंसिओ समए । __उवएसरहस्साइसु, एयं च विवेइअं बहुसो ॥१/११॥ (छाया - इतः गुरुकुलवासः, प्रथमाचारः निदर्शितः समये । उपदेशरहस्यादिषु, एतच्च विवेचितं बहुशः ॥१/११॥) वृत्तिः- 'इत्तो' त्ति । इतः अनन्तगुणोपेतत्वाद् गुरोर्गुरुकुलवासः प्रथमाचारः समये सिद्धान्ते निदर्शितः, आचारस्यादावेव "सुअं मे आउसंतेणं" इति सूत्रस्य निर्देशात् । एतच्च उपदेशरहस्यादिषु, आदिना यतिलक्षणसमुच्चयादिपरिग्रहः, 'बहुशः' बह्वीराः 'विवेचितम्' उपदेशपदपञ्चाशकादिग्रन्थानुसारेण विशिष्य निर्णीतमिति तत एवैतत्तत्त्वमवसेयं नेह भूयः प्रयासः ॥१/११॥ संसारुद्धारकरो, जो भव्वजणाण सुद्धवयणेणं । णिस्संकियगुरुभावो, सो पुज्जो तिहुअणस्स वि ॥४/१५८॥ (छाया - संसारोद्धारकरः, यः भव्यजनानां शुद्धवचनेन । निःशङ्कितगुरुभावः, स पूज्य: त्रिभुवनस्यापि ॥४/१५८॥) वृत्तिः- 'संसारउद्धारकरो 'त्ति स्पष्टा ॥४/१५८॥ तदेवं गुरुतत्त्वं विनिश्चित्यैतद्ग्रन्थफलमाह पवयणगाहाहिं फुडं, गुरुतत्तं णिच्छियं इमं सोउं । गुरुणो आणाइ सया, संजमजत्तं कुणह भव्वा ! ॥४/१५९॥ (छाया - प्रवचनगाथाभिः स्पष्टं, गुरुतत्त्वं निश्चितं इदं श्रुत्वा । गुरोः आज्ञया सदा, संयमयात्रां कुरुत भव्याः ! ॥४/१५९॥) वृत्तिः- 'पवयणगाहाहिं'ति । प्रवचनगाथाभिः क्वचित् सूत्रतोऽप्यर्थतश्च सर्वत्राभिन्नाभिरिदं गुरुतत्त्वं निश्चितं श्रुत्वा गुरोराज्ञया सदा 'संयमयनं' चारित्रपालनोद्यमं कुरुत भव्याः ! गुर्वाज्ञया चारित्रपालनस्यैव परमश्रेयोरूपत्वात् ॥४/१५९॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy