SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ गुरोर्माहात्म्यम् यत्किल कष्टस्य नास्ति साफल्यं तद् गुरुभक्त्यैव कोडिन्यादीनां गौतमगुरूपसम्पत्तिप्रभावप्राप्तकेवलज्ञानानां पञ्चदशशततापसानामिव भवेत् । अतः कष्टस्य साफल्यं गुरुभक्तिप्रयुक्तं तद्वैफल्यं 'चातद्भावप्रयुक्तमित्यन्वयव्यतिरेकाभ्यां क्रियाफलहेतुभूतभक्तिकतया गुरुरेवादरणीय इति भावः ॥१/७॥ दुहगब्भि मोहगब्भे, वेरग्गे संठिया जणा बहवे । गुरुपरतंताण हवे, हंदि तयं नाणगब्भं तु ॥१/८॥ (छाया - दुःखगर्भे मोहगर्भे, वैराग्ये संस्थिता जना बहवः । गुरुपरतन्त्राणां भवेत्, हन्त तद् ज्ञानगर्भं तु ॥१/८॥) ___ वृत्तिः- 'दुह'त्ति । दुःखगर्भे मोहगर्भे च वैराग्ये बहवो जनाः संस्थिताः, आर्तध्यानपारवश्येन क्षणिकनैरात्म्यादिवासनायोगेन च बाह्यानां पार्श्वस्थनिह्नवादिवासनाविप्रलब्धत्वेन च जैनाभासानां बहूनां वैराग्यलिङ्गधारणोपलम्भात् । ज्ञानगर्भं तु तद् वैराग्यं 'हन्दी'त्युपदर्शने गुरुपरतन्त्राणां भवेत्, गुरुपरतन्त्रताया एव ज्ञानलक्षणत्वात् "गुरुपारतंतं नाणं" इति वचनात्, अतो ज्ञानगर्भवैराग्याधायकतयापि गुरुरेव गरीयानिति भावः ॥१८॥ अम्हारिसा वि मुक्खा, पंतीए पंडिआण पविसंति । अण्णं गुरुभत्तीए, किं विलसिअमब्भुअंइत्तो ? ॥१/९॥ (छाया - अस्मादृशा अपि मूर्खाः, पङ्क्तौ पण्डितानां प्रविशन्ति । अन्यत् गुरुभक्तेः, किं विलसितमद्भुतं इतः ॥१/९॥) वृत्तिः- 'अम्हारिसा वित्ति । अस्मादृशा अपि मूर्खा यदिति गम्यं पण्डितानां धर्मग्रन्थकरणपेशलमतीनां पङ्क्तौ प्रविशन्ति, गुरुभक्तेरितोऽन्यत्किमद्भुतं विलसितम् ?, पाषाणनर्तनानुकारः खल्वयं दुष्करानुष्ठानप्रकार इत्यचिन्त्यसामर्थ्यो गुरुरेव ॥१/९॥ सक्का वि णेव सक्का, गुरुगुणगणकित्तणं करेउं जे। भत्तीइ पेल्लिआण वि, अण्णेसिं तत्थ का सत्ती ? ॥१/१०॥ (छाया - शक्रा अपि नैव शक्ताः, गुरुगुणगणकीर्तनं कर्तुं । भक्त्या प्रेरितानामपि, अन्येषां तत्र का शक्तिः ? ॥१/१०॥) वृत्तिः- 'सक्का वित्ति । शक्रा अपि इन्द्रा अपि गुरुगुणगणकीर्तनं नैव कर्तुं १. 'च तदभाव' - इत्यपि ।
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy