SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ २४ गुरोर्माहात्म्यम् ज्वरवतां जनानां भेषजप्रदानादिना समाधि द्रव्यस्वास्थ्यं ददाति तथा गुरुर्भवज्वरगृहीतानां रत्नत्रयलक्षणौषधप्रदानेन धर्मसमाधि दत्ते, तथा च भावारोग्यकारित्वात्परमो वैद्यो गुरुरिति भावः ॥१/४॥ जह दीवो अप्पाणं, परं च दीवेइ दित्तिगुणजोगा। तह रयणत्तयजोगा, गुरू वि मोहंधयारहरी ॥१/५॥ (छाया - यथा दीपः आत्मानं, परं च दीपयति दीप्तिगुणयोगात् । तथा रत्नत्रययोगात्, गुरुरपि मोहान्धकारहरः ॥१/५॥) वृत्तिः- 'जह'त्ति । यथा दीपो दीप्तिगुणस्य-प्रकाशशक्तिलक्षणगुणस्य योगादात्मानं परं च प्रकाश्यमर्थं दीपयति तथा रत्नत्रयस्य ज्ञानदर्शनचारित्रलक्षणस्य योगाद् गुरुरपि मोहान्धकारहरः सन्नात्मानं परं चोपादाननिमित्तभावेन, दीपयति, तथा च भावदीपत्वेनाभ्यहिततमो गुरुरिति भावः ॥१/५॥ जे किर पएसिपमुहा, पाविट्ठा दुटुधिट्ठनिल्लज्जा। गुरुहत्थालंबेणं, संपत्ता ते वि परमपयं ॥१/६॥ (छाया - ये किल प्रदेशिप्रमुखाः, पापिष्ठाः दुष्टधृष्टनिर्लज्जाः । गुरुहस्तालम्बेन, सम्प्राप्तास्तेऽपि परमपदम् ॥१/६॥) वृत्तिः- 'जे किरत्ति । ये किल प्रदेशिनृपतिप्रमुखाः पापिष्ठाः जीवास्तिक्याभावेनातिशायितपापाः, दुष्टाः-मोहदोषोपेतत्वात्, धृष्टाः-कुवासनास्तब्धतादोषात, निर्लज्जा:स्वतन्त्रतादोषात्, तेऽपि गुरोः-केशिगणधरादेहस्तालम्बेनोक्तदोषनिवृत्त्या सुवासनाप्रवृत्त्या च परमपदं पुण्यानुबन्धिपुण्यभोगोचितं स्थानं प्राप्ता इति कृतपापानुबन्धहरत्वेन गुरुरेवाश्रयणीयः ॥१/६॥ उज्झियघरवासाण वि, जं किर कट्ठस्स णत्थि साफल्लं । तं गुरुभत्तीए च्चिय, कोडिन्नाईण व हविज्जा ॥१/७॥ (छाया - उज्झितगृहवासानामपि, यत् किल कष्टस्य नास्ति साफल्यम् । तद् गुरुभक्त्या एव, कौडिन्यादीनामिव भवेत् ॥१/७॥) वृत्तिः- 'उज्झिय'त्ति । उज्झितगृहवासानामपि चतुर्थादिकारिणां बालतपस्विनां १. 'दुर्वासना' 'दोषासना' इति वा पाठः ।
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy