________________
गुरोर्माहात्म्यम्
वृत्तिः- 'गुरुआणाइ' त्ति । गुर्वाज्ञास्थितस्य च परिणतव्यवहारस्य सतो बाह्यानुष्ठानेन विहितावश्यकादिक्रियायोगरूपेण शुद्धचित्तस्य ज्ञानयोगप्रतिबन्धककर्ममलविगमविशदीकृतहृदयस्य निश्चयावलम्बनदशायां शुद्धात्मस्वभावपरिणतौ प्रकटीभूतायां अध्यात्मध्यानेऽपि एकाग्रत्वं समुल्लसति ॥९५॥'
महोपाध्यायश्रीयशोविजयविरचित-गुरुतत्त्वविनिश्चये स्वोपज्ञतवृत्तौ चोक्तम् - 'गुरुतत्त्वे विनिश्चेतव्ये गुरोरेव माहात्म्यमुपदर्शयति 'गुरुआणाए' इत्यादि -
गुरुआणाए मुक्खो, गुरुप्पसाया उ अट्ठसिद्धीओ।
गुरुभत्तीए विज्जा-साफल्लं होइ णियमेणं ॥१/२॥ (छाया - गुर्वाज्ञया मोक्षः, गुरुप्रसादात्तु अष्टसिद्धयः ।
गुरुभक्त्या विद्या-साफल्यं भवति नियमेन ॥१/२॥) वृत्तिः- गुर्वाज्ञया शुद्धसामाचारीलक्षणया मोक्षः सकलकर्मक्षयलक्षणः स्यात् । गुरुप्रसादाच्च अष्टसिद्धयः अणिमादिलक्षणाः प्रादुर्भवेयुः । गुरुभक्त्या च विद्यानां साफल्यं कार्यसिद्धिलक्षणं नियमेन भवति ॥१/२॥
सरणं भव्वजिआणं, संसाराडविमहाकडिल्लम्मि ।
मुत्तूण गुरुं अन्नो, णत्थि ण होही णवि य हुत्था ॥१/३॥ (छाया - शरणं भव्यजीवानां संसाराटवीमहागहने ।
मुक्त्वा गुरुं अन्यः, नास्ति न भविष्यति नापि चाभवत् ॥१/३॥) वृत्तिः- 'सरणं'ति । भव्यानां-मार्गानुसारिणां जीवानां गुरुं मार्गोपदेशकं मुक्त्वा संसाराटवीमहागहनेऽन्यः कश्चिन्न शरणमस्ति न भविष्यति नापि चाभवत्, कालत्रयेऽपि गुरुरेवात्र शरणमिति भावः ॥१/३॥
जह कारुणिओ विज्जो, देह समाहि जणाण जरिआणं ।
तह भवजरगहिआणं, धम्मसमाहिं गुरू देइ ॥१/४॥ (छाया - यथा कारुणिको वैद्यः, ददाति समाधि जनानां ज्वरितानाम् ।
तथा भवज्वरगृहीतानां, धर्मसमाधि गुरुः ददाति ॥१/४॥) वृत्तिः- 'जह'त्ति । यथा कारुणिकः निरुपधिपरदुःखप्रजिहीर्षावान् वैद्यः ज्वरितानां