SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ २२ गुरोर्माहात्म्यम् एवं सुवन्नसरिसो पडिपुन्नाहिअगुणो गुरू णेओ। इयरो वि समुचियगुणो ण उ मूलगुणेहि परिहीणो ॥१३॥ (छाया- एवं सुवर्णसदृशः प्रतिपूर्णाधिकगुणो गुरु यः । इतरोऽपि समुचितगुणो न तु मूलगुणैः परिहीनः ॥९३||) वृत्तिः- ‘एवं' ति । एवमुक्तप्रकारेण सुवर्णसदृशः सामान्यतो भावसाधुगुणयोगात् । तथा प्रतिपूर्णा अन्यूनाः अधिकगुणाः प्रतिरूपादिविशेषगुणा यस्य स तथा गुरुर्जेयः । अपवादाभिप्रायेणाह-इतरोऽपि कालादिवैगुण्यादेकादिगुणहीनोऽपि समुचितगुणः पादार्द्धहीनगुणो गुरु यः, न तु मूलगुणैः परिहीनः, तद्रहितस्य गुरुलक्षणवैकल्यप्रतिपादनाद् । उक्तं च 'गुरुगुणरहिओ वि इहं दटुव्वो मूलगुणविउत्तो जो' त्ति [पंचा० ११/३५] । मूलगुणसाहित्ये तु समुचितगुणलाभाद् न किञ्चिद्गुणवैकल्येनाऽगुरुत्वमुद्भावनीयमिति भावः । उक्तं च - ‘ण उ गुणमित्तविहूणोत्ति चंडरुद्दो उदाहरणं ।' ति ॥ ९३।। उचितगुणश्च गुरुर्न परित्याज्य:, किन्तु तदाज्ञायामेव वर्तितव्यमित्याह एयारिसो खलु गुरू कुलवहुणाएण णेव मोत्तव्यो। एयस्स उ आणाए जइणा धम्ममि जइअव्वं ॥१४॥ (छाया- एतादृशः खलु गुरुः कुलवधूज्ञातेन नैव मोक्तव्यः । एतस्य त्वाज्ञया यतिना धर्मे यतितव्यम् ॥९४॥) वृत्तिः- एतादृश उचितगुणः, खलु निश्चये गुरुः कुलवधूज्ञातेन नैव मोक्तव्यः । यथाहि कुलवधूभ; भत्सितापि तच्चरणौ न परित्यजति, तथा सुशिष्येण भत्सितेनाप्युचितगुणस्य गुरोश्चरणसेवा न परित्याज्येति भावः । तु पुनः एतस्योचितगुणस्य गुरोराज्ञया यतिना धर्मे यतितव्यम् ॥९॥ तदाज्ञास्थितस्य च यो गुणः सम्पद्यते तमाह गुरुआणाइ ठियस्स य बज्झाणुटाणसुद्धचित्तस्स । अज्झप्पज्झाणम्मि वि एगग्गत्तं समुल्लसइ ॥१५॥ (छाया- गुर्वाज्ञायां स्थितस्य च बाह्यानुष्ठानशुद्धचित्तस्य । अध्यात्मध्यानेऽपि एकाग्रत्वं समुल्लसति ॥९५॥)
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy