SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ गुरोर्माहात्म्यम् मङ्गालार्थविनीतमिति कर्मधारयपदम् । रसायनं वयः स्तम्भनं, मङ्गलार्थं मङ्गलप्रयोजनं, विनीतमिव विनीतं, कटककेयूरादीष्टविशेषैः परिणमनात् । तथा प्रदक्षिणावर्त्तमतितापने प्रदक्षिणावृत्ति । तथा गुरुकं अलघुसारत्वात् । अदाह्याकुत्स्यमिति कर्मधारयपदं, तत्रादाह्यमग्नेरदहनीयं, सारत्वादेव, अकुत्स्यमकुत्सनीयं, अकुथितगन्धत्वादिति । एवमष्ट सुवर्णे नि गुणा असाधारणधर्मा भवन्ति स्युरिति गाथार्थः ॥९०॥ एतत्समानान् साधुगुणानाह (छाया - इति मोहविषं घातयति १ शिवोपदेशाद्रसायनं भवति २ । गुणतश्च मङ्गलार्थं ३ करोति विनीतश्च योग्य इति ४ ॥ ९१ ॥ इय मोहविसं घायइ १ सिवोवएसा रसायणं होइ २ । मंगलथं ३ कुणइ विणीओ अ जोग्गोत्ति ४ ॥ ९१ ॥ तथा वृत्तिः - 'इय'त्ति । इत्येवं सुवर्णवदित्यर्थः, १ मोहविषं विवेकचैतन्यापहारि, घातयति नाशयति केषाञ्चित् साधुरीति प्रक्रमः । कुतः ? इत्याह शिवोपदेशान्मोक्षमार्गप्ररूपणात् । तथा २ स एव रसायनमिव रसायनं भवति जायते, शिवोपदेशादेवाऽजरामररक्षाहेतुत्वात् । तथा ३ गुणतश्च स्वगुणमाहात्म्येन च मङ्गलार्थं मङ्गलप्रयोजनदुरितोपशममित्यर्थः करोति विधत्ते । ४ विनीतश्च प्रकृत्यैव भवत्यसौ, योग्य इति कृत्वा ॥९१॥ - मग्गसारि पाहिण ५ गंभीरो गरुअओ तहा होइ ६ । कोहग्गणा अडज्झो ७ अकुच्छो सइ सीलभावेणं ८ ॥९२॥ (छाया - मार्गानुसारित्वं प्रदक्षिणत्वं ५ गम्भीरः गुरुककस्तथा भवति ६ । क्रोधाग्निनाऽदाह्यो ७ sकुत्स्यः सदा शीलभावेन ८ ॥ ९२ ॥ ) २१ वृत्ति: - ' मग्गणुसारि 'त्ति । ५ मार्गानुसारित्वं सर्वत्र यत्साधोस्तत्प्रदक्षिणावर्त्तत्वमुच्यते । ६ गम्भीरोऽतुच्छचेताः गुरुकको गुरुक इत्यर्थः । तथा इति समुच्चये भवति स्यात् । तथा ७ क्रोधाग्निनाऽदाह्यः सुवर्णवत् तथा ८ अकुत्स्यः सदा शीलभावेन शीललक्षणसौगन्ध्यसद्भावेनेति ॥९२॥ निगमयन्नाह -
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy