SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २० महोपाध्याय श्रीविनयविजयविरचित-लोकप्रकाशे उक्तम् 'गुरूणां विनयात्प्राप्ता, फलदात्र परत्र च । धर्मार्थकामशास्त्रार्थ- पटुः वैनयिकी मतिः ॥३/७२६॥ गुरोर्माहात्म्यम् गुर्वादिभक्तिकरुणा- कषायविजयादिभिः । बध्नाति कर्म साताख्यं, दाता सद्धर्मदायुक् ॥१०/२५४॥ गुर्वादिभक्तिविकलः, कषायकलुषाशयः । असातावेदनीयं च, बध्नाति कृपणोऽसुमान् ॥१०/२५५॥ गुरुर्धर्मस्योपदेष्टा.....॥३०/४॥' महोपाध्यायश्रीयशोविजयविरचित - धर्मपरीक्षायां स्वोपज्ञतद्वृत्तौ चोक्तम् 'सुवर्णसदृशत्वमेव गुरूणां भावयन्नाह सत्थोइयगुणजुत्तो सुवन्नसरिसो गुरु विणिोि । ता तत्थ भांति इमे विसघायाई सुवन्नगुणे ॥८९॥ (छाया - शास्त्रोदितगुणयुक्तः सुवर्णसदृशो गुरुर्विनिर्दिष्टः । तस्मात्तत्र भणन्तीमान् विषघातादीन्सुवर्णगुणान् ॥८९॥ - वृत्तिः - 'सत्थोइय'त्ति । शास्त्रे दशवैकालिकादावुदिताः प्रतिपादिता ये गुणाः साधुगुणास्तैर्युक्तः सहितः सुवर्णसदृशो गुरुर्विनिर्दिष्टः तत्तस्मात्कारणात् तत्र गुरौ विषघातादीन् इमाननन्तरमेव वक्ष्यमाणान् सुवर्णगुणान् योजयन्ति ॥८९॥ विसघाइ- रसायण-मंगलत्थ - विणीए पयाहिणावत्ते । गुरुए-अडज्झ-कुच्छे अट्ठ सुवन्ने गुणा हुंति ॥९०॥ अत्रार्थेऽष्टसुवर्णगुणप्रतिपादनाय भावसाधौ गुरौ तद्योजनाय च पूर्वाचार्य (श्रीहरिभद्रसूरि) कृता एव तिस्रो गाथा उपन्यस्यति (छाया - विषघातिरसायणमङ्गलार्थविनीतं प्रदक्षिणावर्त्तम् । गुरुकमदाह्याकुत्स्यमष्टौ सुवर्णे गुणा भवन्ति ॥९०॥ ) वृत्तिः - 'विसघाइ' इत्यादि । विषघाति - गरदोषहननशीलं सुवर्णं भवति । रसायन
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy