________________
गुरोर्माहात्म्यम्
मा चिन्तयथ पुनः एतत्, किमपि विशेषं न पश्यामः वयम् । रक्ता मूढा गुरवः, असमर्थाः अत्र किं कुर्मः ? ॥२१॥ रत्नपरीक्षकमेकं, मुक्त्वा समकान्तिवर्णरत्नानाम् । किं जानन्ति विशेष, मिलिताः सर्वेऽपि ग्राम्याः ? ॥२२॥ एतत् एव जानन्तः, ते शिष्याः साधयन्ति परलोकम् । अपरे उदरं भृत्वा, कालं गमयन्ति महीवलये ॥२३॥ एतदपि खलु मा जल्पथ, गुरवो दृश्यन्ते तादृशा नैव । ये मध्यस्था भूत्वा, यथास्थितवस्तु विचारयन्ति ॥२४॥ समयानुसारिणो ये गुरव-स्तान् गौतममिव सेवेत । मा चिन्तयथ कुविकल्पं, यदि इच्छथ साधयितुं मोक्षम् ॥२५॥ वक्रजडाः अथ शिष्याः, केऽपि खलु चिन्तयन्ति किमपि अघटमानम् । तथापि खलु निजकर्मभ्यः, दोषं दद्यात् न तु गुरुभ्यः ॥२६॥ चक्रित्वं इन्द्रत्वं गणधर-अर्हत्-प्रमुखचारुपदम् । मनोवाञ्छितमपरमपि खलु, जायते गुरुभक्तियुक्तानाम् ॥२७॥ आराधनायाः गुरोः, अपरं न खलु किमपि अस्ति इह अमृतम् । तस्य च विराधनायाः, द्वितीयं हालाहलं नास्ति ॥२८॥ एतदपि खलु श्रुत्वा, गुरुभक्तिः नैव निर्मला यस्य । भवितव्यता प्रमाणं, किं भणामः तस्य पुनः अन्यत् ? ॥२९॥ परलोकलालसया, किं वा इहलोकमात्रस्मरणेन । हृदयेन अथवा रोधात्, यथा तथा वा अत्र शिष्येण ॥३१॥ येन न आत्मा स्थापितः, निजगुरुमनःपङ्कजे भ्रमर इव । किं तस्य जीवितेन, जन्मना अथवा दीक्षया ? ॥३२॥ युक्तायुक्तविचारः, गुर्वाज्ञायां न युज्यते कर्तुम् । दैवात् अनिष्टं पुनः, यदि भवेत् तदपि कल्याणम् ॥३३॥)