________________
१८
स एव शिष्यः शिष्यः, यो ज्ञात्वा इङ्गितं गुरुजनस्य । वर्तते कार्ये सदा, शेषः भृत्यः वचनकारी ॥६॥
यस्य गुरौ न भक्तिः, निवसति हृदये वज्ररेखेव । किं तस्य जीवितेन ? विडम्बनामात्ररूपेण ॥७॥ प्रत्यक्षमथ परोक्षं, अवर्णवादं गुरूणां यः कुर्यात् । जन्मान्तरेऽपि दुर्लभं, जिनेन्द्रवचनं पुनः तस्य ॥८॥ याः काः ऋद्धयः, भवन्ति शिष्याणामत्र संसारे । गुरुभक्तिपादपात्, पुष्पसमाः स्फुटं ताः ॥९॥
जलपानदायकस्याऽपि, उपकारः न शक्यते कर्त्तुम् । किं पुनः भवार्णवात्, यः तारयति तस्य शुभगुरोः ? ॥१०॥
एषा एव परमकला, एष धर्मः इदं परं तत्त्वम् । गुरुमानसानुकूलं, यत् क्रियते शिष्यवर्गेण ॥१३॥
युक्तमेव गुरुवचनं, अथवा अयुक्तं च भवेत् दैवात् । तथापि खलु एतत् तीर्थं, यत् भविष्यति तदपि कल्याणम् ॥१४॥
किं तया ऋया, चौरस्येव वध्यमण्डनसमया ? | गुरुजनमनो विराध्य, यां शिष्याः कथमपि वाञ्छन्ति ॥१५॥
कण्डूयननिष्ठीवनोच्छ्वासप्रमुखातिलघुककार्यम् । बहुवेलया पृष्ट्वा, अन्यत् पृच्छेत् प्रत्येकम् ॥१६॥
गुरोर्माहात्म्यम्
मा पुनः एकं पृष्ट्वा, कुर्यात् द्वे त्रीणि अपरकार्याणि । लघुकेषु अपि कार्येषु, एषा मर्यादा सुसाधूनाम् ॥१७॥ कृत्वा गुरुमपि कार्यं, न कथयन्ति च पृष्टा अपि गोपायन्ति । ये पुनः ईदृशचरिताः, गुरुकुलवासेन किं तेषाम् ? ॥१८॥ योग्यायोग्यस्वरूपं, ज्ञात्वा केनापि कारणवशेन । सन्मानादिविशेषं, गुरवो दर्शयन्ति (दिशन्ति) शिष्येभ्यः ॥ १९ ॥ एष सदाऽपि मार्गः, एकस्वभावा न भवन्ति यत् शिष्याः । इति ज्ञात्वा परमार्थं, गुरौ खेदो न कर्त्तव्यः ॥२०॥