________________
१४
गुरोर्माहात्म्यम् ततो गुरूणां चरणाम्बुजं सदा कृतज्ञभावेन कृती निषेवते ।
पदं महासम्पदमन्यदीहितं हितं मनोहारि यशांसि विन्दते ॥२/४८॥' श्रीजयशेखरसूरिविरचित-प्रबोधचिन्तामणावुक्तम् -
'गुरूपदेशबाह्या ये, स्वैराचारा निरङ्कुशाः ।
वेषान्तरितमेषानां, तेषां जन्म निरर्थकम् ॥४/२५६॥' पण्डितसुमतिविजयगणिकृत-उपदेशकल्पवल्ल्यामुक्तम्
'गुर्वाज्ञां मुकुटीकुर्वन्, गुरूक्तं कर्णपूरयन् ।
गुरुभक्ति धरन् हारं, सुशिष्यः शोभते भृशम् ॥१७७॥' महोपाध्यायश्रीयशोविजयविरचित-अध्यात्मसारे पन्न्यासगम्भीरविजयकृततद्वृत्तौ चोक्तम्
'गुर्वाज्ञापारतन्त्र्येण, द्रव्यदीक्षाग्रहादपि ।
वीर्योल्लासक्रमात्प्राप्ता, बहवः परमं पदम् ॥२/२७॥ वृत्तिः - 'गुर्वाज्ञे 'ति-गुर्वाज्ञापारतन्त्र्येण गुरूणां श्रुतवृद्धानां आज्ञा निर्देशस्तस्या यत्पारतन्त्र्यं वशवर्तित्वं तेन हेतुना । द्रव्यदीक्षाग्रहादपि द्रव्येण षष्ठगुणस्थानपरिणामाप्राप्तेन यद्दीक्षाया ग्रहो ग्रहणं रजोहरणादिसाधुलिङ्गधारणं तस्मादपि । तथा वीर्योल्लासक्रमात् वीर्यस्यान्तर्गतरुचिरूपस्य क्रियायां पराक्रमस्य वा उल्लासो वृद्धिस्तस्य क्रम उत्तरोत्तरशुद्धित्वापादनं तस्मात् । बहवो भव्याः । परमं पदं अत्युत्कृष्टानन्दमयं मोक्षं । प्राप्ता गताः । यान्ति च महाविदेहादिष्वित्यर्थः ॥२/२७॥' महोपाध्यायश्रीयशोविजयविरचित-यतिलक्षणसमुच्चये उक्तम् -
'गुणरत्तस्स य मुणिणो गुरुआणाराहणं हवे णियमा। बहुगुणरयणनिहाणा तओ ण अहिओ जओ को वि ॥१३६॥ तिण्हं दुप्पडिआरं अम्मापिउणो तहेव भट्टिस्स । धम्मायरियस्स पुणो भणि गुरुणो विसेसेउं ॥१३७॥ गुरुआणाए चाए जिणवरआणा न होइ णियमेण । सच्छंदविहाराणं हरिभद्देणं जओ भणिअं॥१४३॥