________________
गुरोर्माहात्म्यम्
औदासीन्यं गुरौ येषा - मृद्ध्यादि च विलोक्यते । पापानुबन्धिपुण्येन, तेषां जन्म निगद्यते ॥९५॥
अभक्तिर्मान येषां गुरौ भवति भूयसी । पापानुबन्धिपापेन, तेषां जन्मेति लक्ष्यते ॥९६॥
पूर्वं कृता करिष्यामः, साम्प्रतं व्याकुला वयम् । गुरुभक्ति प्रति प्रोचुर्ये तेषां ननु विस्मृता ॥९७॥ कालरात्रिर्यकारूढा, अविज्ञातसमागमा । समाप्यते क्षणादेव, यस्यां कार्यपरम्परा ॥ ९८ ॥ किं बहुना विचारेण यदि कार्यं सुखैर्जनाः । तत्सर्वकुग्रहत्यागाद्-गुरुभक्तिर्विधीयताम् ॥९९॥'
श्रीसूराचार्यविरचित-दानादिप्रकरणे उक्तम् -
'व्याख्यानादन्यदाप्येषां चेतसे यन्न रोचते । अपथ्यमिव दूरेण, हितैषी तद्विवर्जयेत् ॥२/४१॥
चित्तानुवर्ती सर्वत्र, प्रविष्ट इव चेतसि । प्रवर्त्तेत निवर्त्तेत, हितकारी प्रियङ्करः ॥२/४२॥
यथा पूर्वं तथा पश्चाद्, यथाऽग्रे पृष्ठतस्तथा । निर्व्याजवृत्तिः पूज्यानां, सुखीकुर्यान्मनः सदा ॥२/४३॥
इति गुरुजनं भक्त्याऽऽराध्य प्रयत्नपरायणा, विमलमनसो धन्या मान्या जनस्य सुमेधसः । श्रुतजलधेर्गत्वा प्रान्तं नितान्तमहीयसः, सपदि सुखिनः सम्पद्यन्ते पदं परसम्पदाम् ॥२/४४॥ गुरूपकारः शक्येत नोपमातुमिहापरैः । उपकारैर्जगज्ज्येष्ठो जिनेन्द्रो ऽन्यनरैर्यथा ॥ २/४६॥
जन्मशतैरपि शक्यं नृभिरानृण्यं गुरोर्न तु विधातुम् । तद्गुणदानाभावे ते च गुणास्तस्य सन्त्येव ॥२/४७॥
१३