________________
गुरोर्माहात्म्यम् __ वृत्तिः - 'गुर्वि'त्यादि । गुरुपारतन्त्र्यमेव च गुर्वाज्ञावशवर्तित्वमेव च तद्बहुमानाद् गुरुविषयान्तरप्रीतिविशेषान्न तु विष्टिमात्रज्ञानात् । सदाशयेन भवक्षयहेतुरयं मे गुरुरित्येवंभूतशोभनपरिणामेन न तु जात्यादिसमसम्बन्धज्ञानेनानुगतं सहितं परमगुरुप्राप्तेः सर्वज्ञदर्शनस्येह जगति बीजं गुरुबहुमानात्तथाविधपुण्यसम्पत्त्या सर्वज्ञदर्शनसम्भवात् तस्माच्च हेतोर्मोक्ष इति हेतोगुरुपारतन्त्र्यं साधुनाऽवश्यं विधेयमिति सोपस्कारं व्याख्येयम् ॥२/१०॥' योगदृष्टिसमुच्चये तद्भुतौ चोक्तम्
'गुरुभक्तिप्रभावेन तीर्थकृद्दर्शनं मतम् ।
समापत्त्यादिभेदेन निर्वाणैकनिबन्धनम् ॥६४॥ वृत्तिः - गुरुभक्तिप्रभावेन-गुरुभक्तिसामर्थ्येन तदुपात्तकर्मविपाकत इत्यर्थः, किमित्याह - तीर्थकृद्दर्शनं मतं-भगवद्दर्शनमिष्टम्, कथमित्याह समापत्त्यादिभेदेन 'समापत्तिानतः स्पर्शना' तथा, आदिशब्दात्तन्नामकर्मबन्धविपाकतद्भावापत्त्युपपत्तिपरिग्रहः । तदेव विशिष्यते निर्वाणैकनिबन्धनं - अवन्ध्यमोक्षकारणमसाधारणमित्यर्थः ॥६४॥' धर्मरत्नकरण्डके उक्तम् -
"गुरुभक्तिर्भवाम्भोधे-स्तारिका दुःखवारिका। धन्यानां वर्तते चित्ते, प्रत्यहं नौरिव दृढा ॥७७॥ प्रथमान्तिमतीर्थेशै-स्तीर्थकन्नामकर्मणः । बीजं लब्धमटव्यां यद्-गुरुभक्तिस्तत्र कारणम् ॥७९॥ पापोपहतबुद्धीनां, येषां चेतसि न स्थिता । गुरुभक्तिः कुतस्तेषां, सम्यग्दर्शनमुत्तमम् ? ॥८॥ गौरव्या गुरवो मान्या, धर्ममार्गोपदेशकाः । सेवनीयाः प्रयत्लेन, संसाराम्बुधिसेतवः ॥४७॥ सर्वदा मानसे येषां, गुरुभक्तिर्गरीयसी। पुण्यानुबन्धिपुण्येन, तेषां जन्मेह गीयते ॥१४॥