________________
२९०
सूत्रार्थः ॥८/४॥
षड्विधाः कायाः
तथा ‘सुद्ध'त्ति सूत्रं, शुद्धपृथिव्याम् अशस्त्रोपहतायामनन्तरितायां न निषीदेत्, तथा सरजस्के वा पृथिवीरजोऽवगुण्ठिते वा आसने पीठकादौ न निषीदेत्, निषीदनग्रहणात्स्थानत्वग्वर्तनपरिग्रहः, अचेतनायां तु प्रमृज्य तां रजोहरणेन निषीदेत् ज्ञात्वेत्यचेतनां ज्ञात्वा याचयित्वाऽवग्रहमिति यस्य सम्बन्धिनी पृथिवी तमवग्रहमनुज्ञाप्येति सूत्रार्थः ॥८/५ ॥
उक्तः पृथिवीकायविधिः, अधुना अप्कायविधिमाह - 'सीओदगं'ति सूत्रं, शीतोदकं पृथिव्युद्भवं सच्चित्तोदकं न सेवेत, तथा शिला वृष्टं हिमानि च न सेवेत, तत्र शिलाग्रहणेन करकाः परिगृह्यन्ते, वृष्टं वर्षणं, हिमं प्रतीतं प्राय उत्तरापथे भवति । यद्येवं कथमयं वर्त्तेतेत्याह उष्णोदकं क्वथितोदकं तप्तप्रासुकं तप्तं सत्प्रासुकं त्रिदण्डोद्वृत्तं, नोष्णोदकमात्रं, प्रतिगृह्णीयाद्वृत्त्यर्थं संयतः साधुः, एतच्च सौवीराद्युपलक्षणमिति सूत्रार्थः ॥८/६॥
1
तथा ‘उदउल्लं’ति सूत्रं, नदीमुत्तीर्णो भिक्षाप्रविष्टो वा वृष्टिहतः उदकार्द्रम् उदकबिन्दुचितमात्मनः कायं शरीरं स्निग्धं वा नैव पुञ्छ्येद् वस्त्रतृणादिभिः न संलिखेत् पाणिना, अपि तु सम्प्रेक्ष्य निरीक्ष्य तथाभूतम् उदकार्द्रादिरूपं नैव कायं सङ्घट्टयेत् मुनिर्मनागपि न स्पृशेदिति सूत्रार्थः ||८/७
उक्तोऽप्कायविधिः, तेज: कायविधिमाह - 'इंगालं'ति सूत्रं, अङ्गारं ज्वालारहितम् अग्निम् अयःपिण्डानुगतम् अर्चिः छिन्नज्वालम् अलातम् उल्मुकं वा सज्योतिः साग्निकमित्यर्थः, किमित्याह - नोत्सिञ्चेत् न घट्टयेत्, तत्रोञ्जनमुत्सेचनं प्रदीपादेः, घट्टनं मिथश्चालनं, तथा नैनम् - अग्नि निर्वापयेद् अभावमापादयेत् मुनिः साधुरिति सूत्रार्थः ॥८/८॥
प्रतिपादितस्तेजःकायविधिः, वायुकायविधिमाह - 'तालिअंटेण 'त्ति सूत्रं, तालवृन्तेन व्यजनविशेषेण पत्रेण पद्मिनीपत्रादिना शाखया वृक्षडालरूपया विधूप (व) नेन वा व्यजनेन वा, किमित्याह-न वीजयेद् आत्मनः कायं स्वशरीरमित्यर्थः बाह्यं वापि पुद्गलम् उष्णोदकादीति सूत्रार्थः ॥८/९ ॥
प्रतिपादितो वायुकायविधिः, वनस्पतिविधिमाह 'तण 'त्ति सूत्रं, तृणवृक्षमित्येकवद्भावः, तृणानि -दर्भादीनि वृक्षाः - कदम्बादयः, एतान्न छिन्द्यात् फलं मूलं वा कस्यचिद्वृक्षादेर्न छिन्द्यात्, तथा आमम् अशस्त्रोपहतं विविधम् अनेकप्रकारं बीजं न मनसाऽपि प्रार्थयेत्, किमुत अश्नीयादिति सूत्रार्थः ॥ ८/१० ॥
तथा 'गहणेसु 'त्ति सूत्रं, गहनेषु वननिकुञ्जेषु न तिष्ठेत्, सङ्घट्टनादिदोषप्रसङ्गात्, तथा