________________
२८९
षड्विधाः कायाः
शुद्धपृथिव्यां न निषीदेत्, सरजस्के चासने । प्रमृज्य निषीदेत, याचयित्वा यस्य अवग्रहम् ॥८/५॥ शीतोदकं न सेवेत, शिला वृष्टं हिमानि च । उष्णोदकं तप्तप्रासुकं, प्रतिगृह्णीयात् संयतः ॥८/६॥ उदकाई आत्मनः कायं, नैव पुञ्छयेत् न संलिखेत् । समुत्प्रेक्ष्य तथाभूतं, न णं सङ्घट्टयेत् मुनिः ॥८॥७॥ अङ्गारं अग्नि अचिः, अलातं वा सज्योतिः । न उठेत् न घट्टयेत्, नैनं निर्वापयेत् मुनिः ॥८॥८॥ तालवृन्तेन पत्रेण, शाखया विधूवनेन वा । न वीजयेत् आत्मनः कायं, बाह्यं वापि पुद्गलम् ॥८/९॥ तृणवृक्षं न छिन्द्यात्, फलं मूलं च कस्यचित् । आमकं विविधं बीजं, मनसाऽपि न प्रार्थयति ॥८/१०॥ गहनेषु न तिष्ठेत्, बीजेषु हरितेषु वा । उदके तथा नित्यं, उत्तिङ्गपनकयोर्वा ॥८/११॥ त्रसान् प्राणिनो न हिंस्यात्, वाचा अथवा कर्मणा ।
उपरतः सर्वभूतेषु, पश्येत् विविधं जगत् ॥८/१२॥) वृत्तिः - तं प्रकारमाह - 'पुढवि'त्ति सूत्रं, पृथिव्युदकाग्निवायवस्तृणवृक्षसबीजा एते पञ्चैकेन्द्रियकायाः पूर्ववत्, त्रसाश्च प्राणिनो द्वीन्द्रियादयो जीवा इत्युक्तं महर्षिणा वर्धमानेन गौतमेन वेति सूत्रार्थः ॥८/२॥
यतश्चैवमतः 'तेसिं'ति सूत्रं, अस्य व्याख्या - तेषां पृथिव्यादीनाम् अक्षणयोगेन अहिंसाव्यापारेण नित्यं भवितव्यं वर्तितव्यं स्यात् भिक्षुणा मनसा कायेन वाक्येन एभिः करणैरित्यर्थः, एवं वर्तमानोऽहिंसकः सन् भवति संयतो, नान्यथेति सूत्रार्थः ॥८/३॥ ___ एवं सामान्येन षड्जीवनिकायाहिंसया संयतत्वमभिधायाधुना तद्गतविधीन्विधानतो विशेषेणाह - 'पुढवि'त्ति सूत्रं, पृथिवीं शुद्धां भित्ति तटीं शिला पाषाणात्मिकां लेष्टम् इट्टालखण्डं नैव भिन्द्यात् नो संलिखेत्, तत्र भेदनं द्वैधीभावोत्पादनं संलेखनम् ईषल्लेखनं त्रिविधेन करणयोगेन न करोति मनसेत्यादिना संयतः साधुः सुसमाहितः शुद्धभाव इति