SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २८७ षड्विधाः कायाः मोहयित्वेति व्याचिख्यासुराह - जो पुण मोहेइ परं, सब्भावेणं च कइअवेणं वा । समयंतरम्मि सो पुण, मोहित्ता घेप्पइ सऽणेणं ॥१६६०॥ (छाया- यः पुनः मोहयति परं, सद्भावेन च कैतवेन वा । समयान्तरे स पुनः मोहयित्वा गृह्यते सोऽनेन ॥१६६०॥) वृत्तिः - यः पुनर्मोहयति परम् अन्यं प्राणिनं सद्भावेन वा तथ्येन वा, तथा कैतवेन वा परिकल्पितेन, समयान्तरे परसमये मोहयति, स पुनरेवम्भूतः प्राणी मोहयित्वेति गृह्यतेऽनेन द्वारगाथावयवेनेति गाथार्थः ॥१६६०॥ आसां भावनानां फलमाह - एयाओ भावणाओ, भावित्ता देवदुग्गइं जंति । तत्तोऽवि चुआ संता, परिति भवसागरमणंतं ॥१६६१॥ (छाया- एता भावना, भावयित्वा देवदुर्गतिं यान्ति ।। ___ तत्तोऽपि च्युताः सन्तः, पर्यटन्ति भवसागरमनन्तम् ॥१६६१॥) वृत्तिः - एता भावना भावयित्वा अभ्यस्य देवदुर्गतिं यान्ति प्राणिनः ततस्तस्या अपि च्युताः सन्तः-देवदुर्गतेः, पर्यटन्ति भवसागरं संसारसमुद्रं अनन्तमिति गाथार्थः ॥१६६१॥' गुरुरिन्द्रियविषयप्रमादास्रवनिद्राकुभावनासु यतनावान् भवति - तेषां परिहारे प्रयत्नवान् भवति । कायाः जीवरूपाः । ते षड्विधाः । तद्यथा - १ पृथ्वीकायः, २ अप्कायः, ३ तेजस्कायः, ४ वायुकायः, ५ वनस्पतिकायः ६ त्रसकायश्च । गुरुरेतेषु षट्सु कायेषु यतनावान् भवति – तेषां रक्षणे तत्परो भवति । उक्तञ्च दशवैकालिकसूत्रे तद्वृत्तौ च 'पुढविदगअगणिमारुअ, तणरुक्खस्सबीयगा। तसा अ पाणा जीवत्ति, इइ वुत्तं महेसिणा ॥८/२॥ तेसिं अच्छणजोएण, निच्चं होअव्वयं सिआ। मणसा कायवक्केणं, एवं हवइ संजए ॥८/३॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy