SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ पञ्चविधाः कुभावनाः वृत्तिः - ज्ञानादीनि दूषयन् पारमार्थिकानि, तद्विपरीतं तु पारमार्थिकज्ञानविपरीतमेव उद्दिशति मार्गं धर्म्मसम्बन्धिनम् उन्मार्गदेशक एष एवम्भूतः भवत्यहित एव परमार्थेन स्वपरयोर्द्वयोरपीति गाथार्थः || १६५६ ॥ मार्गदूषकमाह - २८६ णाणाइ तिविहमग्गं, दूसइ जो जे अ मग्गपडिवण्णे । अहो जाईए खलु, भण्णइ सो मग्गदूसोति ॥ १६५७॥ ॥ दारं ॥ (छाया - ज्ञानादिं त्रिविधमार्गं, दूषयति यः ये च मार्गप्रतिपन्नाः । अबुधः जात्या खलु, भण्यते स मार्गदूषक इति ॥१६५७॥ ॥ द्वारम् ॥) वृत्तिः - ज्ञानादिं त्रिविधमार्गं पारमार्थिकं दूषयति यः कश्चित्, ये च मार्गप्रतिपन्नाः साधवस्तांश्च दूषयति, अबुधः अविद्वान् जात्यैव, न परमार्थेन, भण्यतेऽसावे - वम्भूतः मार्गदूषकः पाप इति गाथार्थः || १६५७॥ मार्गविप्रतिपत्तिमाह जो पुणतमेव मग्गं, दूसिउं पंडिओ सतक्काए । उम्मग्गं पडिवज्जइ, विप्पडिवन्ने स मग्गस्स ॥ १६५८ ॥ ॥ दारं ॥ (छाया - यः पुनस्तमेव मार्गं, दूषयित्वा अपण्डितः स्वतर्कया । उन्मार्गं प्रतिपद्यते, विप्रतिपन्नः स मार्गस्य || १६५८|| || द्वारम् ॥) वृत्ति: - यः पुनस्तमेव मार्गं ज्ञानादिं दूषयित्वा अपण्डितः सन् स्वतर्कया जातिरूपया देशे उन्मार्गं प्रतिपद्यते, देश एव विप्रतिपत्तिरिति गाथार्थः || १६५८ || मोहमाह - तह तह उवहयमइओ, मुज्झइ णाणचरणंतरालेसु । इड्डीओ अ बहुविहा, दट्टु जत्तो तओ मोहो ॥१६५९॥ (छाया- तथा तथा उपहतमतिकः, मुह्यति ज्ञानचरणान्तरालेषु । ऋद्धीश्च बहुविधा, दृष्ट्वा यतस्ततो मोहः || १६५९ ॥ ) वृत्ति: - तथा तथा चित्ररूपतया उपहतमतिः सन् मुह्यति ज्ञानचरणान्तरालेषु गहनेषु, ऋद्धीश्च बहुविधा दृष्ट्वा परतीर्थिकानां यतो मुह्यति असौ मोह इति गाथार्थः ॥१६५९॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy