________________
२८५
पञ्चविधाः कुभावनाः (छाया- चङ्क्रमणादि सक्तः, सुनिष्कृप: स्थावरादिसत्त्वेषु ।
कृत्वा वा नानुतप्यते, ईदृशो निष्कृपो भवति ॥१६५३॥ ॥ द्वारम् ।।) वृत्तिः - चङ्क्रमणादि गमनासनादि सक्तः सन् क्वचित् सुनिष्कृपः-सुष्ठ गतघृणः स्थावरादिसत्त्वेषु करोत्यजीवप्रतिपत्त्या, कृत्वा वा चङ्क्रमणादि नानुतप्यते केनचिन्नोदितः सन्, ईदृशो निष्कृपो भवति, लिङ्गमेतदस्येति गाथार्थः ॥१६५३॥ निरनुकम्पमाह -
जो उ परं कंपंतं, गुण ण कंपए कठिणभावो ।
एसो उ णिरणुकंपो, पण्णत्तो वीअरागेहिं ॥१६५४॥ ॥ दारं ॥ (छाया- यस्तु परं कम्पमानं, दृष्ट्वा न कम्पते कठिनभावः ।
एषस्तु निरनुकम्पः, प्रज्ञप्तो वीतरागैः ॥१६५४॥ ॥ द्वारम् ।।) वृत्तिः - यस्तु परं कम्पमानं दृष्ट्वा कुतश्चिद्धेतुतः न कम्पते कठिनभावः सन् क्रूरतया, एष पुनः निरनुकम्पो जीवः प्रज्ञप्तो वीतरागैः-आप्तैरिति गाथार्थः ॥१६५४॥ उक्ताऽऽसुरीभावना, सम्मोहनीमाह -
उम्मग्गदेसओ मग्गदूसओ मग्गविप्पडीवत्ती।
मोहेण य मोहित्ता, सम्मोहं भावणं कुणइ ॥१६५५॥॥ पडिदारं ॥ (छाया- उन्मार्गदेशक: मार्गदूषक: मार्गविप्रतिपत्तिः ।
मोहेन च मोहयित्वा, सम्मोही भावनां करोति ॥१६५५॥ ॥ प्रतिद्वारम् ॥) वृत्तिः - उन्मार्गदेशकः वक्ष्यमाणः, एवं मार्गदूषकः, एवं मार्गविप्रतिपत्तिः, तथा मोहेन स्वगतेन, तथा मोहयित्वा परं सम्मोहीभावनां करोति, तद्भावाभ्यासरूपत्वादिति गाथार्थः ॥१६५५॥ उन्मार्गदेशकमाह -
नाणाइ अ दूसिंतो, तव्विवरीअं तु उद्दिसइ मग्गं ।
उम्मग्गदेसओ एस होइ अहिओ अ सपरेसिं ॥१६५६॥ (छाया- ज्ञानादीनि च दूषयन्, तद्विपरीतं तूद्दिशति मार्गम् ।
उन्मार्गदेशक एषः, भवत्यहितश्च स्वपरयोः ॥१६५६॥