________________
२८३
पञ्चविधाः कुभावनाः (छाया- त्रिविधं भवति निमित्तं, अतीतप्रत्युत्पन्नानागतं चैव ।
अत्र शुभाशुभभेदं, अधिकरणेतरविभाषया ॥१६४७॥) वृत्तिः - त्रिविधं भवति निमित्तं कालभेदेनेत्याह-अतीतं प्रत्युत्पन्नमनागतं चैव, अतीतादिविषयत्वात्तस्य, अत्र शुभाशुभभेदमेतल्लोके, कथमित्याह-अधिकरणेतरविभाषया, यत्साधिकरणं तदशुभमिति गाथार्थः ॥१६४७॥
एयाणि गारवठ्ठा, कुणमाणो आभिओगिअं बंधे।
बीअंगावरहिओ, कुव्वइ आराह उच्चं च ॥१६४८॥॥ दारं ॥ (छाया- एतानि गौरवार्थं, कुर्वन् आभियोगिकं बध्नाति ।
द्वितीयं गौरवरहितः, करोति आराधक उच्चं च ॥१६४८॥ ॥ द्वारम् ॥) वृत्तिः - एतानि भूतिकादीनि गौरवार्थं गौरवनिमित्तं कुर्वन् ऋषिः आभियोगिकम् - अभियोगनिमित्तं बध्नाति कर्म, देवताधभियोगादिकृत्यमेतद्, द्वितीयम् अपवादपदमत्र, गौरवरहितः सन् - नि:स्पृह एव करोत्यतिशयज्ञाने सत्येतत्, स चैवं कुर्वन्नाराधको न विराधकः, उच्चं च गोत्रं बध्नातीति शेषः, तीर्थोन्नतिकरणादिति गाथार्थः ॥१६४८॥ उक्ताऽऽभियोगिकी भावना, साम्प्रतमासुरीमाह -
अणुबद्धवुग्गहोच्चिअ, संसत्ततवो णिमित्तमाएसी ।
णिक्किवनिराणुकंपो, आसुरिअं भावणं कुणइ ॥१६४९॥ (छाया- अनुबद्धविग्रह एव, संसक्ततपा निमित्तमादेशी ।
निष्कृपः निरनुकम्पः, आसुरीकां भावनां करोति ॥१६४९॥) वृत्तिः - अनुबद्धविग्रहः सदा कलहशीलः, अपि च संसक्ततपाः आहारादिनिमित्तं तपःकारी, तथा निमित्तम् अतीतादिभेदं आदिशति, तथा निष्कृपः कृपारहितः, तथा निरनुकम्पः अनुकम्पारहितः अन्यस्मिन् कम्पमानेऽपि इत्यासुरीभावनोपेतो भवतीति गाथार्थः ॥१६४९॥ व्यासार्थं त्वाह -
णिच्चं विग्गहसीलो, काऊण य णाणुतप्पई पच्छा। ण य खामिओ पसीअइ, अवराहीणं दुविण्हंपि ॥१६५०॥॥ दारं ॥