________________
२८२
पञ्चविधाः कुभावनाः ___ वृत्तिः - भूत्या भस्मरूपया मृदा वा-आर्द्रपांसुलक्षणया सूत्रेण वा प्रसिद्धेन भवति भूतिकर्म परिरयवेष्टनरूपं, किमर्थमित्याह-वसतिशरीरभण्डकरक्षेति एतद्रक्षार्थम्, अभियोगादय इति कृत्वा, तेन कृतेन तद्रक्षार्थं, कर्तुरिति गाथार्थः ॥१६४४॥
प्रश्नस्वरूपमाह - पण्हो उ होइ पसिणं, जं पासइ वा सयं तु तं पसिणं।
अंगुटुच्छिद्रुपडे, दप्पण-असि-तोअ-कुड्डाई (कुद्धाई पा.)॥१६४५॥ ॥ दारं ॥ (छाया- प्रश्नस्तु भवति प्रश्नः, यत् पश्यति वा स्वयं तु तत्प्रश्नः ।
अङ्गुष्ठोच्छिष्टपटः, दर्पण-असि-तोय-कुड्यादिषु (क्रुद्धादिःपा.) ॥१६४५।। ॥ द्वारम्॥) वृत्तिः - प्रश्नस्तु भवति देवतादिपृच्छारूप: प्रश्न इति, यत्पश्यति वा स्वयं आत्मना तुशब्दादन्ये च तत्रस्थाः प्रस्तुतं वस्तु तत्प्रश्न इति, क्व तदित्याह - अङ्गुष्ठोच्छिष्टपट इत्यङ्गुष्ठे पटे उच्छिष्टः कासारादिभक्षणेन, एवं दर्पणे आदर्श असौ च खड्गे तोये उदके कुड्डे भित्तौ, आदिशब्दान्मदनफलादिपरिग्रहः, क्रुद्धादि क्रुद्धः प्रशान्तो वा पश्यति कल्पविशेषादिति गाथार्थः ॥१६४५॥
प्रश्नाप्रश्नमाह -
पसिणापसिणं सुमिणे, विज्जासिटुं कहेइ अण्णस्स।
अहवा आइंखणिआ, घंटिअसिटुं परिकहेइ ॥१६४६॥॥ दारं ॥ (छाया- प्रश्नाप्रश्नः स्वप्ने, विद्याशिष्टं कथयति अन्यस्मै ।
____ अथवा आख्यात्री, घण्टिकाशिष्टं परिकथयति ॥१६४६॥ ॥ द्वारम् ॥) वृत्तिः - प्रश्नाप्रश्नोऽयमेवंविधो भवति-यः स्वप्ने विद्याशिष्टं विद्याकथितं सत् कथयत्यन्यस्मै शुभजीवितादि, अथवा 'आइंखणिय'त्ति ईक्षणिका दैवज्ञा आख्यात्री लोकसिद्धा डोम्बी, घण्टिकाशिष्टं-घण्टिकायां स्थित्वा घण्टिकायक्षेण कथितं परिकथयति, एष वा प्रश्नाप्रश्न इति गाथार्थः ॥१६४६।। निमित्तमाह -
तिविहं होइ णिमित्तं, तीय-पडुप्पण्ण-णागयं चेव । एत्थ सुभासुभभेअं, अहिगरणेतरविभासाए ॥१६४७॥