SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ पञ्चविधाः कुभावनाः २८१ परस्य अन्यस्य सतोऽपि विद्यमानानपि मायादोषेण, तथा चौर इव सर्वशङ्की स्वचित्तदोषेण, गूढाचारः सर्वत्र वस्तुनि भवति मायी जीव इति गाथार्थः ॥१६४१॥ उक्ता किल्बिषिकी भावना, आभियोगिकीमाह - कोअ भूईकम्मे, पसिणा इअरे णिमित्तमाजीवी। इड्डिरससायगुरुओ, अभिओगं भावणं कुणइ ॥१६४२॥ ॥ पडिदारं ॥ (छाया- कौतुकं भूतिकर्म, प्रश्नः इतरो निमित्तमाजीवी । ऋद्धिरससातगुरुकः, अभियोगां भावनां करोति ॥१६४२॥) ॥ प्रतिद्वारम् ॥ वृत्तिः - कौतुकं वक्ष्यमाणं एवं भूतिकर्म एवं प्रश्नः एवमितरः प्रश्नाप्रश्नः, एवं निमित्तं आजीवीति कौतुकाद्याजीवकः ऋद्धिरससातगुरुः सन् अभियोगां भावनां करोति, तथाविधाभ्यासादिति गाथार्थः ॥१६४२॥ कौतुकद्वारावयवार्थमाह - विम्हवणहोमसिरपरिरयाइ खारडहणाणि धूमे अ। असरिसवेसग्गहणा, अवयासण थंभणं बंधं ॥१६४३॥॥ दारं ॥ (छाया- विस्मापनहोमशिरःपरिरयादीनि क्षारदहनानि धूमश्च । असदृशवेषग्रहणानि, अवत्रासनं स्तम्भनं बन्धः ॥१६४३॥ ॥ द्वारम् ॥) वृत्तिः - विस्मापनं बालस्नपनं होमम् अग्निहवनं शिरःपरिरयः करभ्रमणाभिमन्त्रणं, आदिशब्दः स्वभेदप्रख्यापकः, बालस्नपनादीनामनेकप्रकारत्वात्, क्षारदहनानि तथाविधव्याधिशमनाय, धूपश्च योगगर्भः, असदृशवेषग्रहणानि-नार्यादेरनार्यादिनेपथ्यकरणानि, अवत्रासनं वृक्षादीनां प्रभावेन चालनम्, अवस्तम्भनम्-अनिष्टोपशान्तये स्तेनुकनिष्ठीवनाथुक्करणं, एवं बन्धः-मन्त्रादिना प्रतिबन्धनं, कौतुकमिति गाथार्थः ॥१६४३॥ भूतिकर्माण्याह- - भूईअ मट्टिआए, सुत्तेण व होइ भूइकम्मं तु । वसहीसरीरभंडग-रक्खा अभिओगमाईआ ॥१६४४॥॥ दारं ॥ (छाया- भूत्या मृत्तिकया, सूत्रेण वा भवति भूतिकर्म तु । वसतिशरीरभण्डक-रक्षा अभियोगादयः ॥१६४४॥ ॥ द्वारम् ॥)
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy