________________
२८०
पञ्चविधाः कुभावनाः जच्चाईहिं अवण्णं, विहसइ वट्टइ ण यावि उववाए।
अहिओ छिद्दप्पेही, पगासवाई अणणुलोमो ॥१६३९॥ ॥ दारं ॥ (छाया- जात्यादिभिः अवर्णं, विभाषते वर्त्तते न चाप्युपपाते ।
अहितः छिद्रप्रेक्षी, प्रकाशवादी अननुलोमः ॥१६३९॥ ॥ द्वारम् ॥) वृत्तिः - जात्यादिभिः सद्भिरसद्भिर्वा अवर्णम् अश्लाघारूपं विभाषते अनेकधा ब्रवीति, वर्त्तते न चाप्युपपाते - गुरुसेवावृत्तौ, तथा अहितः छिद्रप्रेक्षी गुरोरेव, प्रकाशवादी सर्वसमक्षं तद्दोषवादी, अननुलोमः प्रतिकूल इति धर्माचार्यावर्णवादः, जात्यादयो ह्यकारणमत्र, गुणाः कल्याणकारणं, गुरुपरिभवाभिनिवेशादयस्त्वतिरौद्रा इति गाथार्थः ॥१६३९॥ साध्ववर्णमाह -
अविसहणा तुरियगई, अणाणुवित्ती अ अवि गुरूणंपि ।
खणमित्तपीइरोसा, गिहिवच्छलगा य संचइआ ॥१६४०॥॥ दारं ॥ (छाया- अविषहणाः अत्वरितगतयः, अननुवर्तिनश्चापि गुरूनपि ।
क्षणमात्रप्रीतिरोषाः, गृहिवत्सलाश्च सञ्चयिनः ॥१६४०॥ ॥ द्वारम् ॥) वृत्तिः - अविषहणाः न सहन्ते कस्यचिद्, अपि तु देशान्तरं यान्ति, अत्वरितगतयो मन्दगामिन इत्यर्थः, अननुवर्तिनश्च प्रकृतिनिष्ठुराः, अपि तु गुरुनपि प्रति, आस्तामन्यो जनः, तथा क्षणमात्रप्रीतिरोषाः - तदैव रुष्टाः तदैव तुष्टाः, गृहिवत्सलाश्च स्वभावेन, सञ्चयिनः-सर्वसङ्ग्रहपरा इति साध्ववर्णवादः, इहाविषहणाः परोपतापभयेन, अत्वरितगतय ईर्यादिरक्षार्थम्, अननुवर्तिनः असंयमापेक्षया, क्षणमात्रप्रीतिरोषाः अल्पकषायतया, गृहिवत्सला धर्मप्रतिपत्तये, सञ्चयवन्त उपकरणाभावे परलोकाभावादिति गाथार्थः ॥१६४०॥ मायिस्वरूपमाह -
गृहइ आयसहावं, छायइ अ गुणे परस्स संतेऽवि।
चोरो व्व सव्वसंकी, गूढायारो हवइ मायी ॥१६४१॥ ॥ दारं ॥ (छाया- गृहति आत्मस्वभावं, छादयति च गुणान् परस्य सतोऽपि ।
चौर इव सर्वशङ्की, गूढाचारः भवति मायी ॥१६४१॥ ॥ द्वारम् ॥) वृत्तिः - गृहति प्रच्छादयति आत्मनः स्वभावं-गुणाभावरूपमशोभनं, छादयति गुणान्