________________
पञ्चविधाः कुभावनाः
२७९ वृत्तिः - ज्ञानस्य श्रुतरूपस्य केवलिनां वीतरागाणां, धर्माचार्याणां गुरूणां, सर्वसाधूनां सामान्येन, भाषमाणोऽवर्णम्-अश्लाघारूपं, तथा मायी सामान्येन, यः स कैल्बिषिकी भावनां तद्भावाभ्यासरूपां करोतीति गाथार्थः ॥१६३६॥ ज्ञानावर्णमाह -
काया वया य ते च्चिअ, ते चेव पमाय अप्पमाया य ।
मोक्खाहिआरिआणं, जोइसजोणीहि किं कज्जं ? ॥१६३७॥ ॥ दारं ॥ (छाया- काया व्रतानि च तान्येव, ते एव प्रमादा अप्रमादाश्च ।
मोक्षाधिकारिकाणां, ज्योतिषयोनिभ्यां किं कार्यम् ? ॥१६३७॥ ॥ द्वारम् ॥) वृत्तिः - कायाः - पृथिव्यादयः व्रतानि-प्राणातिपातादिनिवृत्त्यादीनि, तान्येव भूयो भूयः, तथा त एव प्रमादाः मद्यादयः अप्रमादाश्च-तद्विपक्षभूताः तत्र तत्र कथ्यन्त इति पुनरुक्तदोषः, तथा मोक्षाधिकारिणां साधूनां ज्योतिषयोनिभ्यां ज्योतिषयोनिप्राभृताभ्यां किं कृत्यं ?, न किञ्चिद्, भवहेतुत्वादिति ज्ञानावर्णवादः, इह कायादय एव यत्नेन परिपालनीया इति तथा तथा तदुपदेशः उपाधिभेदेन मा भूद्विराधनेति, ज्योतिःशास्त्रादि च शिष्यग्रहणपालनफलमित्यदुष्टफलमेव सूक्ष्मधिया भावनीयमिति गाथार्थः ॥१६३७॥ केवल्यवर्णमाह -
सव्वेऽवि ण पडिबोहइ, ण याविसेसेण देइ उवएसं ।
पडितप्पइ ण गुरूणवि, णाओ अइणिट्ठिअट्ठो उ॥१६३८॥॥ दारं ॥ (छाया- सर्वानपि न प्रतिबोधयति, न चाविशेषेण ददात्युपदेशम् ।।
परितप्यते न गुरुभ्योऽपि, ज्ञातः अतिनिष्ठितार्थस्तु ॥१६३८॥ ॥ द्वारम् ॥) वृत्तिः - सर्वानपि प्राणिनो न प्रतिबोधयतीति न समवृत्तिः न वा अविशेषेण ददात्युपदेशम्, अपि तु गम्भीरगम्भीरतरदेशनाभेदेन, तथा परितप्यते न गुरुभ्योऽपि दानादिना, आस्तामन्यस्य, ज्ञातः सन्, एवमतिनिष्ठितार्थ एव, लौकिको गर्दाशब्द एषः, इति केवल्यवर्णवादः, न ह्यभव्याः काङ्कटुकप्रायाश्च भव्याः केनचित्प्रतिबोध्यन्ते, उपायाभावादिति सर्वानपि न प्रतिबोधयति, अत एवाविशेषेण न ददात्युपदेशं गुणगुरुत्वाच्च गुरुभ्यो न परितप्यते, साधु निष्ठितार्थ इति गाथार्थः ॥१६३८॥
धर्माचार्यावर्णमाह -