SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ पञ्चविधाः कुभावनाः २७८ दर्पोर इव गोवृषभो बलीवर्द्दविशेषः शरदि काले, तथा सर्वद्रुतकारी असमीक्ष्य-कारी यावत्, तथा स्फुटतीव तीव्रोद्रेकविशेषात् स्थितोऽपि सन् दर्पेण कुत्सितबलरूपेण, य इत्थम्भूतः स द्रुतदर्प्पशील इति गाथार्थः || १६३३॥ हासकरमाह - वेसवयणेहि हासं, जणयंतो अप्पणो परेसिं च । अह हासणोत्ति भण्णइ, घयणोव्व छले णिअच्छंतो ॥१६३४ ॥ ॥ दारं ॥ (छाया- वेषवचनैः हासं, जनयन् आत्मनः परेषां च । अथ हासन इति भण्यते, घतन इव छलानि नियच्छन् || १६३४|| || द्वारम् ॥) वृत्तिः - वेषवचनैः तथा चित्ररूपैर्हासं जनयन् आत्मनः परेषां च द्रष्टृणामथ हासन इति भण्यते, हासकर इत्यर्थः, घतन इव भाण्ड इव, छलानि छिद्राणि नियच्छन् पश्यन्निति गाथार्थः ॥१६३४॥ विस्मापकमाह सुरजालमाइएर्हि, तु विम्हयं कुणइ तव्विहजणस्स । तेसु ण विम्हयइ सयं, आहट्टकुहेडएसुं च ॥१६३५ ॥ ॥ दारं ॥ (छाया - सुरजालादिभिस्तु विस्मयं करोति तद्विधजनस्य । तेषु न विस्मयते स्वयं, आहर्त्तकुहेटकेषु च ॥१६३५।। वृत्तिः - सुरजालादिभिस्तु इन्द्रजालकौतुकैर्विस्मयं करोति चित्तविभ्रमलक्षणं तद्विधजनस्य बालिशप्रायस्य, तेषु इन्द्रजालादिषु न विस्मयते स्वयं = न विस्मयं स्वयं करोत्यात्मना, आहर्त्तकुहेटकेषु च पुनः तथाविधग्राम्यलोकप्रतिबद्धेषु यः स विस्मापक इति गाथार्थः ॥१६३५॥ उक्ता कान्दर्पी भावना, किल्बिषिकीमाह - नाणस्स केवलीणं, धम्मायरिआण सव्वसाहूणं । भासं अवण्णमाई, किब्बिसियं भावणं कुणइ ॥१६३६॥ (छाया- ज्ञानस्य केवलिनां धर्माचार्याणां सर्वसाधूनाम् । भाषमाणोऽवर्णं मायी, कैल्बिषिकीं भावनां करोति ॥१६३६॥)
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy