SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २७७ पञ्चविधाः कुभावनाः वृत्तिः - 'कन्दर्पवान्' कन्दर्पः, एवं कौकुच्यः द्रुतदर्पशीलश्चापि हासकरश्च तथा विस्मापयंश्च परान् कान्दप्पी भावनां करोतीति गाथार्थः ॥१६३०॥ कहकहकहस्स हसणं, कंदप्पो अणिहुआ य संलावा । कंदप्पकहाकहणं, कंदप्पुवएस संसा य ॥१६३१॥ ॥ दारं ॥ (छाया- कहकहकहस्य हसनं, कन्दर्पः अनिभृताश्च संलापाः । ___कन्दर्पकथाकथनं, कन्दर्पोपदेशो शंसा च ॥१६३१॥ ॥ द्वारम् ॥) वृत्तिः - कन्दर्पवान् कान्दी भावनां करोतीत्युक्तं, स च यस्य कहकहकहस्येति, सुपां सुपो भवतीति तृतीयार्थे षष्ठी, कहकहकहेन हसनं, अट्टहास इत्यर्थः, तथा कन्दर्पः परिहासः स्वानुरूपेण, अनिभृताश्च संलापाः, गुर्वादिनापि निष्ठुरवक्रोक्त्यादयः तथा कन्दर्पकथाकथनं-कामकथाग्रहः तथा कन्दर्पोपदेशो-विधानद्वारेण एवं कुविति, शंसा च - प्रशंसा च कन्दर्पविषया यस्य स कन्दर्पवान् ज्ञेय इति गाथार्थः ॥१६३१॥ कौकुच्यवन्तमाह - भमुहणयणाइएहिं, वयणेहि अ तेहिं तेहिं तह चिटुं। कुणइ जह कुक्कुअंचिअ, हसइ परो अप्पणा अहसं ॥१६३२॥॥ दारं ॥ (छाया- भ्रनयनादिकैः, वचनैश्च तैः तैः तथा चेष्टां । ___ करोति यथा कुकुचमेव, हसति परः आत्मना अहसन् ॥१६३२॥ ॥ द्वारम् ॥) वृत्तिः - भ्रूनयनादिभिर्देहावयवैः वचनैश्च तैस्तैर्हासकारकैः तथा चेष्टां करोति क्वचित् तथाविधमोहदोषाद् यथा कुकुचमेव-गात्रपरिस्पन्दवद् हसति परः तद्रष्टा, आत्मनाऽहसन्, अभिन्नमुखराग इव, य एवंविधः स कौकुच्यवानिति गाथार्थः ॥१६३२॥ द्रुतदर्पशीलमाह भासइ दुअं दुअंगच्छई अदपिअव्व गोविसो सरए । सव्वदवद्दवकारी, फुट्टइव ठिओवि दप्पेणं ॥१६३३॥॥ दारं ॥ (छाया- भाषते द्रुतं द्रुतं गच्छति च दपित इव गोवृषभः शरदि । सर्वद्रुतद्रुतकारी, स्फुटतीव स्थितोऽपि दर्पण ॥१६३३॥ ॥ द्वारम् ॥) वृत्तिः - भाषते द्रुतं द्रुतमसमीक्ष्य, सम्भ्रमावेगाद् गच्छति च द्रुतं द्रुतमेव, दर्पित इव
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy