________________
२७६
पञ्चविधाः कुभावनाः प्रथमसंहननस्य केशवार्धबलसदृशी शक्तिः । एनां च व्युत्पत्तिमाश्रित्याह - 'अद्धचक्किअद्धबल' त्ति अर्धचक्रिणः-वासुदेवस्य बलापेक्षया अर्धं बलं-स्थाम यस्या उदये जन्तोर्भवति साऽर्धचयर्धबला, तद्विपाकवेद्या कर्मप्रकृतिरपि थीणद्धीति ५ ...॥१२॥'
कुत्सिता:- सङ्क्लिष्टा भावना:-तत्तत्स्वभावाभ्यासरूपा इति कुभावनाः । ताः पञ्चविधाः । तद्यथा - १ कान्दी भावना, २ किल्बिषी भावना, ३ आभियोगी भावना, ४ आसुरी भावना ५ सम्मोही भावना च । यदवाचि श्रीपञ्चवस्तुके तद्वृत्तौ च -
'कंदप्पदेवकिब्बिस, अभिओगा आसुरा य सम्मोहा ।
एसा उ संकिलिट्ठा, पंचविहा भावणा भणिआ ॥१६२८॥ (छाया- कान्दी देवकैल्बिषी, आभियोगा आसुरा च सम्मोहा ।
एषा तु सङ्क्लिष्टा, पञ्चविधा भावना भणिता ॥१६२८।।) वृत्तिः - कान्दी कैल्बिषिकी आभियोगिकी आसुरी च सम्मोही, कन्दर्पोदीनामियमिति सर्वत्र भावनीयम्, एषा तु सङ्क्लिष्टा पञ्चविधा भावना भणिता, तत्तत्स्वभावाभ्यासो भावनेति गाथार्थः ॥१६२८॥
जो संजओऽवि एआसु अप्पसत्थासु वट्टइ कहंचि ।
सो तविहेसु गच्छइ, सुरेसु भइओ चरणहीणो ॥१६२९॥ (छाया- यः संयतोऽपि एतास्वप्रशस्तासु वर्त्तते कथञ्चिद् ।
स तद्विधेषु गच्छति, सुरेषु भाज्यश्चरणहीनः ॥१६२९॥) वृत्तिः - यः संयतोऽपि सन् व्यवहारतः एतास्वप्रशस्तासु भावनासु वर्त्तते कथञ्चिद् भावमान्द्यात् स तद्विधेषु गच्छति सुरेषु कन्दर्पादिप्रकारेषु, भाज्यश्चरणहीन:-सर्वथा तत्सत्ताविकलः द्रव्यचरणहीनो वेति गाथार्थः ॥१६२९॥
तत्र
कंदप्पे कुक्कुइए, दवसीले आवि हासणपरे अ।
विम्हावितो अ परं, कंदप्पं भावणं कुणइ ॥१६३०॥॥पडिदारगाहा ॥ (छाया- कन्दर्पवान् कौकुच्यः, दर्पशीलश्चापि हासनपरश्च ।
विस्मापयंश्च परं, कान्दप्पी भावनां करोति ॥१६३०॥ ॥ प्रतिद्वारगाथा ॥)