________________
२७५
पञ्चविधा निद्राः (छाया- सुखप्रतिबोधा निद्रा १ निद्रानिद्रा २ च दुःखप्रतिबोधा ।
प्रचला ३ स्थितोपविष्टस्य, प्रचलाप्रचला ४ तु चङ्क्रमतः ॥११॥) वृत्तिः - सुखेन - अकृच्छ्रेण नखच्छोटिकामात्रेणापि प्रतिबोधः-जागरणं स्वप्तुर्यस्यां स्वापावस्थायां सा सुखप्रतिबोधा निद्रा, तद्विपाकवेद्या कर्मप्रकृतिरपि कारणे कार्योपचारात् निद्रेत्युच्यते १ । निद्रातोऽतिशायिनी निद्रा निद्रानिद्रा, मयूरव्यंसकादित्वान्मध्यमपदलोपी समासः, 'चः' समुच्चये, दुःखेन-कष्टेन बहुभिर्घोलनाप्रकारैरत्यर्थमस्फुटतरीभूतचैतन्यत्वेन स्वप्तुः प्रतिबोधो यस्यां सा दुःखप्रतिबोधा, अत एव सुखप्रतिबोधनिद्रापेक्षयाऽस्या अतिशायिनीत्वम्, तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रानिद्रा २ । प्रचलति-विघूर्णते यस्यां स्वापावस्थायां प्राणी सा प्रचला, सा च स्थितस्योर्ध्वस्थानेन उपविष्टस्य-आसीनस्य भवति, तद्विपाकवेद्या कर्मप्रकृतिरपि प्रचला ३ । प्रचलातोऽतिशायिनी प्रचला प्रचलाप्रचला, इयं तुः पुनरर्थे चङ्क्रमतः चङ्क्रमणमपि कुर्वतो जन्तोरुपतिष्ठते, अतः स्थानस्थितस्वस्तृप्रभवप्रचलामपेक्ष्य अतिशायिनीत्वमस्याः, तद्विपाकवेद्या कर्मप्रकृतिरपि प्रचलाप्रचला ४ । सूत्रे च 'पयलपयला' इति ह्रस्वत्वं 'दीर्घहस्वौ मिथो वृत्तौ' (सि० ८-१-४) इति सूत्रेण । इति ॥११॥
दिणचिंतियत्थकरणी, थीणद्धी ५ अद्धचक्किअद्धबला ॥१२॥ (छाया- दिनचिन्तितार्थकरणी स्त्यानद्धिः ५ अर्द्धचक्रिअर्द्धबला ॥१२॥)
वृत्तिः - स्त्याना-बहुत्वेन सङ्घातमापन्ना गृद्धिः-अभिकाङ्क्षा जाग्रदवस्थाध्यवसितार्थसाधनविषया यस्यां स्वापावस्थायां सा स्त्यानगृद्धिः । 'गौणादयः' (सि०८-२१७४) इति प्राकृतसूत्रेण 'थीणद्धी' इति निपात्यते । अस्यां हि जाग्रदवस्थाध्यवसितमर्थमुत्थाय साधयति । श्रूयते ह्येतदागमे कथानकम् -
क्वचित् प्रदेशे कोऽपि क्षुल्लको द्विरदेन दिवा स्खलीकृतः स्त्यानर्युदये वर्तमानस्तस्मिन्नेव द्विरदे बद्धाभिनिवेशो रजन्यामुत्थाय तद्दन्तयुगलमुत्पाट्य स्वोपाश्रयद्वारे क्षिप्त्वा पुनः सुप्तवान् इत्यादि।
इमां च व्युत्पत्तिमाश्रित्याह - 'दिणचिंतियत्थकरणी थीणद्धी' इति दिने-दिवसे चिन्तितमुपलक्षणत्वान्निशायामपि चिन्तितम्-अध्यवसितमर्थं करोति-साधयति निद्रानिद्रावतोरभेदोपचाराद्दिनचिन्तितार्थकरणी, 'रम्यादिभ्यः' (सि० ५-३-१२६) कर्तर्यनटप्रत्ययः । यद्वा स्त्याना-पिण्डीभूता ऋद्धिः-आत्मशक्तिरस्यामिति स्त्यानद्धिः, एतत्सद्भावे हि