________________
२७४
पञ्चविधा आस्रवाः "यावत् परगुणदोषपरिकीर्तने व्यापृतं मनो भवति ।
तावद्वरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् ॥१८४॥" (प्रशमरतिः) इह च चूर्णिकृतेन्द्रियाण्येव पञ्चमप्रमादतया व्याख्यातानि, तत्र च विषयग्रहणेऽपि पुनरिन्द्रियग्रहणं विषयेष्वपीन्द्रियवशत एव प्रवर्तन्त इति तेषामेवातिदुष्टताख्यापकं, महासामर्थ्या अपि ह्येतद्वशादुपघातमाप्नुवन्ति, आह च वाचकः - "इह चेन्द्रियप्रसक्ता निधनमुपजग्मुः, तद्यथा-गाग्र्यः सत्यकि.द्धिगुणं प्राप्तोऽनेकशास्त्रकुशलोऽनेकविद्याबलसम्पन्नोऽपी"त्यादि । एते च तत्तत्पुद्गलोपचितद्रव्यरूपतया विवक्ष्यमाणा द्रव्यप्रमाद आत्मनि च रागद्वेषपरिणतिरूपतया विवक्षिता भावप्रमाद इति हृदयम्, अत एव न भावप्रमादः पृथगुक्तः । उपसंहारमाह-'इती'त्यनन्तरमुपदर्शितः पञ्चविधः-पञ्चप्रकारः एष इति इहैवोच्यमानतया प्रत्यक्षत उपलभ्यमानो भवति विद्यते प्रकर्षेण माद्यन्त्यनेनेति प्रमादः अप्रमादश्च तदभावरूपः पञ्चविधो, भावस्य चैकत्वेऽपि प्रतिषेध्यापेक्षया पञ्चविधत्वमिति गाथार्थः ॥१८०॥' आत्मनि कर्माणि आस्रवन्तीति आस्रवाः । उक्तञ्च तत्त्वार्थाधिगमसूत्रवृत्तौ
'आस्रवन्ति तेन कर्माण्यात्मन इत्यास्त्रवः ॥६/२॥' ते पञ्चविधाः । तद्यथा १ हिंसा, २ असत्यं, ३ चौर्यं, ४ मैथुनं ५ परिग्रहश्च । एतेषां स्वरूपमेवं प्रोक्तं श्रीतत्त्वार्थाधिगमसूत्रवृत्तौ -
'तत्र कषायादिप्रमादपरिणतस्यात्मनः कर्तुः कायादिकरणव्यापाराद् द्रव्यभावभेदेन प्राणव्यपरोपणं हिंसा । प्रागभिहितसामान्यलक्षणयोगे सति सद्भूतनिह्नवासद्भूतोद्भावनविपरीतकसावद्यादि मृषावचनम् । परपरिगृहीतस्य स्वीकरणमाक्रान्त्या चौर्येण शास्त्रनिषिद्धस्य वा स्तेयम् । पूर्वलक्षणयोगान्मोहोदये सति चेतनाचेतनस्रोतसोरासेवनमब्रह्म । सचित्ताचित्तमिश्रेषु द्रव्यादिषु शास्त्राननुमतेषु ममत्वं परिग्रहः ॥७/१॥'
नितरां द्राति - कुत्सितत्वं-अविस्पष्टत्वं गच्छति चैतन्यमनयेति निद्रा । सा पञ्चधा। तद्यथा - १ निद्रा, २ निद्रानिद्रा, ३ प्रचला, ४ प्रचलाप्रचला ५ स्त्यानद्धिश्च । यदुक्तं प्रथमकर्मग्रन्थे तद्वृत्तौ च - 'सम्प्रति निद्रापञ्चकमभिधित्सुराह -
सुहपडिबोहा निद्दा १, निहानिद्दा २ य दुक्खपडिबोहा । पयला ३ ठिओवविट्ठस्स पयलपयला ४ उ चंकमओ ॥११॥