SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ पञ्चविधः प्रमादः २७३ वृत्ति: - माद्यन्ति येन तत् मद्यं, यद्वशाद्गम्यागम्यवाच्यावाच्यादिविभागं जनो न जानाति, अत एवाह - "कार्याकार्ये न जानीते, वाच्यावाच्ये तथैव च । गम्यागम्ये च यन्मूढो, न पेयं मद्यमित्यतः ॥ १॥" विषीदन्ति - धर्मं प्रति नोत्सहन्त एतेष्विति विषयाः, यद्वाऽऽसेवनकाले मधुरत्वेन परिणामे चातिकटुकत्वेन विषस्योपमां यान्तीति विषयाः, अत एवाविवेकिलोकाऽऽसेविता विवेकिलोकपरित्यक्ताश्च तदुक्तम् - "आपातमात्रमधुरा विपाककटवो विषोपमा विषयाः । अविवेकिजनाऽऽचरिता विवेकिजनवर्जिताः पापाः ॥ १॥" कष: कष्यतेऽस्मिन् प्राणी पुनः पुनरावृत्तिभावमनुभवति कषोपलकष्यमाणकनकवदिति - संसारस्तस्मिन् आ - समन्तादयन्ते - गच्छन्त्येभिरसुमन्त इति कषायाः, यद्वा कषाया इव कषायाः, यथा हि तुवरिकादिकषायकलुषिते वाससि मञ्जिष्ठादिरागः श्लिष्यति चिरं चावतिष्ठते तथैतत्कलुषित आत्मनि कर्म सम्बध्यते चिरतरस्थितिकं च जायते, तदायत्तत्वात् तत्स्थिते:, उक्तं हि शिवशर्मणा "जोगा पयडिपएसं ठितिअणुभागं कसायओ कुणई" । (छाया- योगात् प्रकृतिप्रदेशौ स्थित्यनुभागौ कषायतः करोति ।) इत्यादि, एतद्दुष्टता च निरुक्त्यैव भाविता, 'णिद्द'त्ति नितरां द्रान्ति गच्छन्ति कुत्सितामवस्थामिहामुत्र चानयेति निद्रा, तद्वशाद्धि प्रदीपनकादिषु विनाशमिहैवानुभवन्ति, धर्मकार्येष्वपि शून्यमानसत्वान्न प्रवर्तन्ते, तथा च "जागरिया धम्मीणं अहमीणं च सुत्तया सेया । वच्छाविभगिणीए अकहिंसु जिणो जयंती ॥१॥" - (छाया - जाग्रत्ता धर्मिणामधर्मिणां च सुप्तता श्रेयसी । वत्साधिपभगिन्यै अचकथत् जिनो जयन्त्यै ॥१॥) विरूपा स्त्रीभक्तचौरजनपदविषयतयाऽसम्बद्धभाषितया च कथा विकथा, तत्प्रसक्तो हि परगुणदोषोदीरणादिभिः पापमेवोपार्जयति, अत एवाह वाचक:
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy